कृतघ्नानां च यत्पापं परवित्तापहारिणाम्
यत्पापं शस्त्रकर्तृणां तथा वह्निप्रदायिनाम्
व्रतभंगेन यत्पापं व्रतिनां निंदयापि यत्
यत्पापं भ्रूणहत्यायां मृष्टमांसाशिनां च यत्
वृक्षच्छेद प्रसक्तानां यत्पापं शल्यकारिणाम्
पाखंडिनां च यत्पापं नास्तिकानां च यद्भवेत् ६.२९.
मांसमद्यप्रसक्तानां यत्पापं विटभोजिनाम्
मृषावादप्रसक्तानां पररंध्रावलोकिनाम्
यत्पापं साक्ष्यकर्तृणां धान्यसंग्रहकारिणाम्
आखेटकरतानां च यत्पापं पाशदायिनाम्
नित्यं प्रेषणकर्तॄणां यत्पापं मधुजीविनाम्
अदृष्टदेववक्त्राणां यत्पापं मत्स्यजीविनाम्
विवादे पृच्छमानानां पक्षपातेन जल्पताम्
यत्पापं तु भवेत्तेषां निर्दयानां दुरात्मनाम्
कन्याविक्रयकर्तृणां यत्पापं पापसंगिनाम्
विद्याविक्रयकर्तॄणां यत्पापं समुदाहृतम् ६.२९.
एवं मया प्रतिज्ञाय कोपाविष्टेन सूतज
ततःप्रभृत्यहं भूमौ भ्रमामि लगुडायुधः
मया कोपपरीतेन बहवः पन्नगा हताः
एकदाहं वनं प्राप्तो गहनं लगुडायुधः
ततोऽहं दंडमुद्यम्य कालदंडोपमं रुषा
नापराध्यामि ते किंचिदहं ब्राह्मणसत्तम
ततो मया स संप्रोक्तः कोपात्सलिलपन्नगः मम भार्या प्रिया पूर्वं सर्पेणासीद्विनाशिता
ततोऽहं तेन वैरेण सूदयामि महो रगान् हत्वा दंडप्रहारेण तस्मादिष्टतमं स्मर
ततः स मां पुनः प्राह भयेन महतावृतः
अन्ये ते पन्नगा विप्र ये दशंतीह मानवान् ६.२९.
एवं प्रजल्पमानोऽपि स दंडेन मया हतः
अथासौ लगुडस्पर्शात्तत्क्षणादेव पन्नगः
तदाश्चर्यं समालोक्य ततोऽहं विस्मयान्वितः
को भवान्किमिदं रूपं कृतं सर्पमयं विभो