य एष श्रूयते रावो विभ्रमं जनयन्मम
मां दृष्ट्वाऽयं मृगो याति तं मृगी याति पृष्ठतः
वारणोऽयं प्रियां कांतामनुरागानुयायिनीम्
हा प्रिये मृगशावाक्षि तप्तकांचनसंनिभे
क्व सा भक्तिः क्व सा प्रीतिः क्व सा तुष्टिः क्व सा दया
एवं प्रलपमानस्य मम प्राप्ताः सुहृज्जनाः ६.२९.
ततस्तैः कोपरक्ताक्षैः प्रोक्तोऽहं सूतनंदन
त्वं किं शोचसि मूढात्मन्नशोच्यं जीवितं नृणाम्
यूयं वयं तथा चान्ये संजाताः प्राणिनो भुवि
अदर्शनात्प्रिया प्राप्ता पुनश्चादर्शनं गता
नायमत्यंतसंवासः कस्यचित्केनचित्सह
मृतं वा यदि वा नष्टं योतीतमनुशोचति
एवं संबोधयित्वा मां गृहीत्वा ते मुहुर्जनैः
ततो मम गृहस्थस्य स्मरमाणस्य तां प्रियाम्
ततः कोपपरीतेन प्रतिज्ञातं मया स्फुटम्
अद्यप्रभृति चेन्नाहं सर्पं दृष्टिवशं गतम् ६.२९.
यच्च निक्षेपहर्तॄणां यच्च विश्वासघातिनाम्
यत्पापं साधुनिंदायां मातापितृवधे च यत्
परदाररतानां च यत्पापं जीवघातिनाम्
उक्तौ चाभिरतानां च यत्पापं गरदायिनाम्
कृतघ्नानां च यत्पापं परवित्तापहारिणाम्
यत्पापं शस्त्रकर्तृणां तथा वह्निप्रदायिनाम्
व्रतभंगेन यत्पापं व्रतिनां निंदयापि यत्
यत्पापं भ्रूणहत्यायां मृष्टमांसाशिनां च यत्
वृक्षच्छेद प्रसक्तानां यत्पापं शल्यकारिणाम्
पाखंडिनां च यत्पापं नास्तिकानां च यद्भवेत् ६.२९.
मांसमद्यप्रसक्तानां यत्पापं विटभोजिनाम्
मृषावादप्रसक्तानां पररंध्रावलोकिनाम्
यत्पापं साक्ष्यकर्तृणां धान्यसंग्रहकारिणाम्
आखेटकरतानां च यत्पापं पाशदायिनाम्