रुदित्वा सुचिरं तत्र तैः समं महतीं चिताम्
तत आदाय मां कृच्छ्रान्निन्युश्च स्वगृहं प्रति
ततो निशावशेषेऽहमुत्थाय त्वरयाऽन्वितः
कामेनोन्मत्ततां प्राप्तो भ्रममाण इतस्ततः
क्व गतासि विशालाक्षि विजनेऽस्मिन्विहाय माम्
एषोऽरुणकरस्पर्शात्स्वाभां त्यजति चंद्रमाः
अयं तनुः समायाति सविता रक्तमंडलः
गगनं व्यापयन्सूर्यः संतापयति मां भृशम् ६.२९.
करींदः स्वयमभ्येति तत्कुचाभौ समुद्वहन्
एवं प्रलपमानस्य मम मोहो महानभूत्
यंयं पश्यामि तत्राहं भ्रममाणो महावने
त्वद्दंतमुसलप्रख्यं यस्या ऊरुयुगं गज ७४ त्वया जंबूक चेद्दृष्टा बिंबाफलनिभाधरा
अथवा बिल्व शंस त्वं यदि बिल्वोपमस्तनी
त्वत्पुष्पसदृशांगी सा मम भार्या मनस्विनी
मधूक तव पुष्पेण दयितायाः समौ शुभौ
कदलीस्तंभ सुव्यक्तं प्रियायाश्च सुकोमलौ
भोभो मृग न मे भार्या त्वया दृष्टाऽत्र कानने ६.२९.
कांतायाः पुरतो नित्यं विधत्तेंऽगं कलापकृत्
योऽयं संदृश्यते हंसो हंसीमनुस्मरत्यसौ
एक एव सुधन्योऽयं चक्रवाको विहंगमः
य एष श्रूयते रावो विभ्रमं जनयन्मम
मां दृष्ट्वाऽयं मृगो याति तं मृगी याति पृष्ठतः
वारणोऽयं प्रियां कांतामनुरागानुयायिनीम्
हा प्रिये मृगशावाक्षि तप्तकांचनसंनिभे
क्व सा भक्तिः क्व सा प्रीतिः क्व सा तुष्टिः क्व सा दया
एवं प्रलपमानस्य मम प्राप्ताः सुहृज्जनाः ६.२९.
ततस्तैः कोपरक्ताक्षैः प्रोक्तोऽहं सूतनंदन
त्वं किं शोचसि मूढात्मन्नशोच्यं जीवितं नृणाम्
यूयं वयं तथा चान्ये संजाताः प्राणिनो भुवि
अदर्शनात्प्रिया प्राप्ता पुनश्चादर्शनं गता