ततः कतिपयाहस्य मयोढा सा सुविस्मिता
अथ वीरुधसंछन्ने वने तस्मिन्सुसंस्थिते
सा दष्टा सहसा तेन पतिता वसुधातले
अथ सख्यः समागत्य तस्या दुःखेन दुःखिताः
ततोऽहं सत्वरं गत्वा दृष्ट्वा तां पतितां भुवि
इयं मे सुविशालाक्षी मनःप्राणसमा प्रिया
सोऽहमद्य गमिष्यामि परलोकं सहानया
पुत्रपौत्रवधूभिश्च भृत्यवर्गयुतस्य च ६.२९.
यदीयं कर्णनेत्रांता तन्वंगी मधुरस्वरा
एवं विलपमानस्य मम सूत कुलोद्वह
रुदित्वा सुचिरं तत्र तैः समं महतीं चिताम्
तत आदाय मां कृच्छ्रान्निन्युश्च स्वगृहं प्रति
ततो निशावशेषेऽहमुत्थाय त्वरयाऽन्वितः
कामेनोन्मत्ततां प्राप्तो भ्रममाण इतस्ततः
क्व गतासि विशालाक्षि विजनेऽस्मिन्विहाय माम्
एषोऽरुणकरस्पर्शात्स्वाभां त्यजति चंद्रमाः
अयं तनुः समायाति सविता रक्तमंडलः
गगनं व्यापयन्सूर्यः संतापयति मां भृशम् ६.२९.
करींदः स्वयमभ्येति तत्कुचाभौ समुद्वहन्
एवं प्रलपमानस्य मम मोहो महानभूत्
यंयं पश्यामि तत्राहं भ्रममाणो महावने
त्वद्दंतमुसलप्रख्यं यस्या ऊरुयुगं गज ७४ त्वया जंबूक चेद्दृष्टा बिंबाफलनिभाधरा
अथवा बिल्व शंस त्वं यदि बिल्वोपमस्तनी
त्वत्पुष्पसदृशांगी सा मम भार्या मनस्विनी
मधूक तव पुष्पेण दयितायाः समौ शुभौ
कदलीस्तंभ सुव्यक्तं प्रियायाश्च सुकोमलौ
भोभो मृग न मे भार्या त्वया दृष्टाऽत्र कानने ६.२९.
कांतायाः पुरतो नित्यं विधत्तेंऽगं कलापकृत्
योऽयं संदृश्यते हंसो हंसीमनुस्मरत्यसौ
एक एव सुधन्योऽयं चक्रवाको विहंगमः