एकदा तु मया पृष्टः कथांते प्राप्य कौतुकम्
भगवन्सुकुमारं ते शरीरं प्रथमं वयः
कथं सर्वं धरापृष्ठं ससमुद्रं निरीक्षितम्
त्वया ये कीर्तिता द्वीपाः समुद्राः पर्वतास्तथा
अत्र कौतूहलं जातमश्रद्धेयं वचस्तथा
तपसः किं प्रभावोऽयं किं वा मंत्रपराक्रमः
किं वा देवप्रसादस्तु तवौषधिकृतोऽथवा
अथ मां स मुनिः प्राह विहस्य मुनिसत्तमाः ६.२९.
सदाहमष्टसंयुक्तं सहस्रं शिवसन्निधौ
त्रिकालं तेन मे जातं सुस्थिरं यौवनं मुने
मम वर्षसहस्राणि बहूनि प्रयुतानि च
अत्र ते कीर्तयिष्यामि विस्तरेण महामते
अहं हि ब्राह्मणो नाम्ना वत्सः ख्यातो महीतले
एतस्मिन्नेव काले तु मेनका च वराप्सराः
सा गता भ्रममाणाथ काम्यकंनाम तद्वनम्
यत्रास्ते मुनिशार्दूलो देवरात इति स्मृतः
उपविष्टो नदीतीरे देवतार्च्चापरायणः
अथ सा पश्यतस्तस्य विवस्त्रा प्राविशज्जलम् ॥ ६.२९.
अथ तस्य मुनींद्रस्य रेतश्चस्कन्द तत्क्षणात्
एतस्मिन्नंतरे प्राप्ता सारंगी सुपिपासिता
अथ साऽपि दधे गर्भं मानुषं वै प्रभावतः
जनयामास दीप्तांगी कन्यां पद्मदलेक्षणाम्
अथ तां स मुनिर्ज्ञात्वा स्वज्ञानेन स्ववीर्यजाम्
स्नेहेन महता युक्तः कृतकौतुकमंगलः
आजहार सुमृष्टानि तत्कृते सुफलानि सः
तत्रस्था ववृधे सा च नाम्ना ख्याता मृगावती
अथ सा भ्रममाणेन मया दृष्टा मृगेक्षणा
विज्ञाय च कुमारीं तां सवर्णां चारुहासिनीम् ६.२९.
प्रयच्छैनां मम ब्रह्मन्पत्न्यर्थं निज कन्यकाम्
ततस्तेन प्रदत्ता मे तत्क्षणादेव सुन्दरी