सूत उवाच । वदतस्तत्समुद्दिश्य यद्वत्सस्य महात्मनः
पुरा मे वसमानस्य पुरतोऽत्र पितुर्गृहे
वहमानो युवावस्थां द्वादशार्कसमद्युतिः
मत्पित्रा स तदा दृष्टस्ततो भक्त्याऽभिवादितः
स्वागतं तव विप्रेंद्र कुतस्त्वमिह चागतः
कर्तुमिच्छाम्यनुष्ठानं शुश्रूषां चेत्करोषि मे
धन्योऽस्म्यनुगृहीतोऽस्मि यस्त्वं मे गृहमागतः
एवमुक्ताथ मामाह स पिता द्विजसत्तमाः ६.२९.
ततोऽहं विनयोपेतस्तस्य कृत्यानि कृत्स्नशः
राजर्षीणां पुराणानां देवदानवरक्षसाम्
एकदा तु मया पृष्टः कथांते प्राप्य कौतुकम्
भगवन्सुकुमारं ते शरीरं प्रथमं वयः
कथं सर्वं धरापृष्ठं ससमुद्रं निरीक्षितम्
त्वया ये कीर्तिता द्वीपाः समुद्राः पर्वतास्तथा
अत्र कौतूहलं जातमश्रद्धेयं वचस्तथा
तपसः किं प्रभावोऽयं किं वा मंत्रपराक्रमः
किं वा देवप्रसादस्तु तवौषधिकृतोऽथवा
अथ मां स मुनिः प्राह विहस्य मुनिसत्तमाः ६.२९.
सदाहमष्टसंयुक्तं सहस्रं शिवसन्निधौ
त्रिकालं तेन मे जातं सुस्थिरं यौवनं मुने
मम वर्षसहस्राणि बहूनि प्रयुतानि च
अत्र ते कीर्तयिष्यामि विस्तरेण महामते
अहं हि ब्राह्मणो नाम्ना वत्सः ख्यातो महीतले
एतस्मिन्नेव काले तु मेनका च वराप्सराः
सा गता भ्रममाणाथ काम्यकंनाम तद्वनम्
यत्रास्ते मुनिशार्दूलो देवरात इति स्मृतः
उपविष्टो नदीतीरे देवतार्च्चापरायणः
अथ सा पश्यतस्तस्य विवस्त्रा प्राविशज्जलम् ॥ ६.२९.
अथ तस्य मुनींद्रस्य रेतश्चस्कन्द तत्क्षणात्
एतस्मिन्नंतरे प्राप्ता सारंगी सुपिपासिता