किमत्र गुप्तभावेन तिष्ठथ श्वभ्रमध्यगाः
देवा ऊचुः तेन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्
यज्ञभागो हृतोऽस्माकं दैत्यानां स प्रकल्पितः
हत्वा दैत्यान्यथा भूयः शक्रः स्वपदमाप्नुयात्
विशेषो नास्ति मे कश्चिदुभयोः सुरसत्तमाः
तस्मात्तान्वारयिष्यामि शक्राद्यांस्त्रिदिवात्पुनः
दूतं कलिंगदैत्याय त्यज त्वं त्रिदिवं द्रुतम् 7.3.22.
श्रीमाता जगतां माता देवैराराधिता परा
स्वस्थानं गच्छ शीघ्रं त्वं शक्रो यातु त्रिविष्टपम्
अहं लोकेश्वरो मत्वा सगर्वमिदमब्रवीत्
न तां जानामि तांश्चैव गत्वा ब्रूहि ममाज्ञया
न भवद्भ्यस्वहं स्वर्गं प्रयच्छामि कथंचन एतस्मात्कारणाद्दूत न त्वां प्राणैर्वियोजये
श्रीमातां यदि मे दूत दर्शयिष्यसि चेत्ततः
अहं त्वया समं तत्र यास्ये यत्र स्थिता च सा
अर्बुदं प्रययौ तूर्णं रोषेण महता वृतः
दृष्ट्वा बाष्कलिमायांतं देवाः शक्रपुरोगमाः
भयेन महताविष्टा दिशो भेजुः समंततः 7.3.22.
श्रीमाता तिष्ठते यत्र पर्वतेर्बुदसंज्ञके
भार्या मे भव सुश्रोणि अहं ते वशगः सदा
भविष्यति हि मे राज्यं सर्वं वशगतं तव
किमिंद्रेणाल्पवीर्येण किमन्यैश्च वरानने
तस्य सर्वं यथावाक्यं तेनोक्तं च महीपते
ततः श्रुत्वा स्मितं कृत्वा चिंतयामास भामिनी
कथमस्य मया कार्यो निग्रहो देवताकृते तावत्तत्रागतः शीघ्रं स कामेन परिप्लुतः
अथ दृष्टिनिपातेन सा देवी दानवाधिपम्
ततो जहास सा देवीशनकैर्वृपसत्तम
हस्तिनो हयवर्याश्च पादाताश्च पृथग्विधाः 7.3.22.
तैः सैन्यं दानवेशस्य सर्वं शस्त्रैर्निपातितम्
हते सैन्य बले तस्मिन्निंद्राद्यास्त्रिदिवौकसः नास्मिञ्जीवति नो राज्यं स्वर्गे देवि भविष्यति
पर्वतस्य महाशृंगं दत्त्वा तस्योपरि स्वयम्