यत्र पूर्वं तपस्तप्तं विश्वामित्रेण धीमता ६.२८.
यत्र स्थित्वा सभूपालस्त्रिशंकुः पापवर्जितः
यत्र शक्रसमादेशात्पूरितं पांसुभिः पुरा
यत्र रक्षत्यधस्ताच्च स स्वयं हाटकेश्वरः
हाटकेश्वरमाहात्म्यादस्पृष्टं कलिना हि तत्
तस्मास्वांशेन गच्छंतु तत्र तीर्थान्यशेषतः
तच्छ्रुत्वा वचनं तस्य सर्वतीर्थानि तत्क्षणात्
यज्ञोपवीतमात्राणि कृत्वा स्थानानि चात्मनः
एतस्मात्कारणाजात क्षेत्रं पुण्यतमं हि तत्
संगमं सर्वतीर्थानां क्षेत्रे तत्र प्रकीर्तितम्
तावन्मात्रप्रभावाणि तत्स्थानि प्रभवंति किम् ६.२८.
नामतः स्थानतश्चैव तथा चैव प्रभावतः
हाटकेश्वरजं क्षेत्रं व्याप्य सर्वं व्यवस्थिताः
न तेषां कीर्तनं शक्यं कर्तुं वर्षशतैरपि
कृतः समाश्रयस्तत्र क्षेत्रे तीर्थैः शुभावहे
उच्छेदं संप्रयातानि तीर्थान्यायतनानि च तानि वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः
येषां संश्रवणादेव नरः पापात्प्रमुच्यते ध्यानात्स्नानात्तथा दानात्स्पर्शनाद्विजसत्तमाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये हाटकेश्वरक्षेत्रे सर्वतीर्थसमाश्रयवर्णनंनामाष्टाविंशोऽध्यायः
तत्क्षेत्रं ख्यातिमापन्नं समस्ते धरणीतले
समस्तेभ्यस्ततोऽदूरान्मुनयः शंसितव्रताः
तथा ते लिंगिनो दान्ताः सिद्धिकामाः समंततः
तत्र सिद्धेश्वरंनाम लिंगमस्ति द्विजोत्तमाः
निर्विद्य भूतले शर्वः सर्वव्यापी सदा शिवः
लिंगरूपेण भगवान्प्रादुर्भूतः स्वयं हरः
सिद्धेनाराधितो यस्मात्तस्मात्सिद्धेश्वरः स्मृतः
यस्तं पश्यति सद्भक्त्या शुचिः स्पृशति वा नरः
तत्र सिद्धिं गताः पूर्वं शतशः पुरुषा भुवि
दक्षिणामूर्तिमासाद्य मन्त्रं तस्य षडक्षरम् ६.२९.
यावत्संख्यं जपेन्मत्रं तावत्संख्यान्यहानि सः
आयुषोऽप्यधिकं मर्त्यो जीवते यदि मानवः