शृणुयाद्वा नरो यश्च श्रद्धापूतेन चेतसा
प्रभासादीनि तीर्थानि मूर्तानि सकलानि च
तानि श्रुत्वा वचस्तस्य देवाचार्यस्य तादृशम्
यद्येवं देवदेवेश भविष्य त्यशुभं युगम्
पुरंदराद्य चास्माकं स्थानं किंचित्प्रदर्शय
यदाश्रित्य नयिष्यामो रौद्रं कलियुगं विभो पाताले स्वर्गलोके वा मर्त्ये वा सुरसत्तम
तेषां तद्वचनं श्रुत्वा कृपाविष्टः शतक्रतुः
अस्पृष्टं कलिना स्थानं किंचि द्वद बृहस्पते
शक्रस्य तद्वचः श्रुत्वा चिरं ध्यात्वा वृहस्पतिः
हाटकेश्वरमित्युक्तमस्ति क्षेत्रमनुत्तमम्
यत्र पूर्वं तपस्तप्तं विश्वामित्रेण धीमता ६.२८.
यत्र स्थित्वा सभूपालस्त्रिशंकुः पापवर्जितः
यत्र शक्रसमादेशात्पूरितं पांसुभिः पुरा
यत्र रक्षत्यधस्ताच्च स स्वयं हाटकेश्वरः
हाटकेश्वरमाहात्म्यादस्पृष्टं कलिना हि तत्
तस्मास्वांशेन गच्छंतु तत्र तीर्थान्यशेषतः
तच्छ्रुत्वा वचनं तस्य सर्वतीर्थानि तत्क्षणात्
यज्ञोपवीतमात्राणि कृत्वा स्थानानि चात्मनः
एतस्मात्कारणाजात क्षेत्रं पुण्यतमं हि तत्
संगमं सर्वतीर्थानां क्षेत्रे तत्र प्रकीर्तितम्
तावन्मात्रप्रभावाणि तत्स्थानि प्रभवंति किम् ६.२८.
नामतः स्थानतश्चैव तथा चैव प्रभावतः
हाटकेश्वरजं क्षेत्रं व्याप्य सर्वं व्यवस्थिताः
न तेषां कीर्तनं शक्यं कर्तुं वर्षशतैरपि
कृतः समाश्रयस्तत्र क्षेत्रे तीर्थैः शुभावहे
उच्छेदं संप्रयातानि तीर्थान्यायतनानि च तानि वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः
येषां संश्रवणादेव नरः पापात्प्रमुच्यते ध्यानात्स्नानात्तथा दानात्स्पर्शनाद्विजसत्तमाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये हाटकेश्वरक्षेत्रे सर्वतीर्थसमाश्रयवर्णनंनामाष्टाविंशोऽध्यायः
तत्क्षेत्रं ख्यातिमापन्नं समस्ते धरणीतले
समस्तेभ्यस्ततोऽदूरान्मुनयः शंसितव्रताः