चतुष्पदानामन्येषां विंशतिः पंचभिर्युता
तथा पापपरा लोका दुःस्थिताश्च विशेषतः सेवितास्तेऽपि गृध्राद्यैर्यत्र च्छायाविवर्जिताः
यत्र धर्मो ह्यधर्मेण पीड्यते सुरसत्तम
गुरवश्च तथा शिष्यैः स्त्रीभिश्च पुरुषाधमाः
यत्र सीदंति धर्मिष्ठा नराः सत्यपरायणाः
आधयो व्याधयश्चैव तथा पीडा महाद्भुता
अल्पायुषस्तथा मर्त्या जायंते वर्णसंकरात्
न वर्षति घनः काले संप्राप्तेऽपि यथोचिते
न च क्षीरप्रदा गावो यद्यपि स्युः सुपोषिताः
लोका भवंति निःश्रीकास्तथा ये च मलिम्लुचाः ६.२७.
तथा तपस्विनः शूद्राः शूद्रा धर्मपरायणाः
शूद्राः प्रतिग्रहीतारः शूद्रा दानप्रदास्तथा
पंचगर्तान्खनंत्येव मृत्युकाले नराधमाः
वेदविक्रयकर्तारो ब्राह्मणाः शौचवर्जिताः
स्वाध्यायरहिताश्चैव शूद्रान्ननिरताः सदा
पाखंडिनो विकर्मस्थाः परदारोपजीविनः
न स्वभावात्सहस्राक्ष कथंचिदपि देहिनाम्
नष्टोत्सवाविधर्माणो नित्यं संकरकारकाः
ततो ह्रासं प्रयास्यंति वृद्धिं याति कलौ युगे
अल्पत्वाद्दुर्लभत्वाच्च अशक्ता गृहकर्मणि ६.२७.
नियमाः संयमाः सर्वे मंत्रवादास्तथैव च
स्वस्वभावविहीनानि हीनानि च तथा जलैः
तत्र ते संभविष्यंति कुत्सिता ये च मानवाः
वित्तलोभात्प्रदास्यंति कुत्सिताय नराः सुताम्
कन्यकाः प्रकरिष्यंति पुरुषैः सह संगतिम्
सर्वकृत्येषु दुःशीलाः। सुयत्नेनापि रक्षिताः
पीडयिष्यंति निर्दोषान्वित्तलोभादसंशयम्
संत्यक्ष्यंति युगे तस्मिन्प्राणिद्रोहेऽपि वर्तिनम्
प्रमाणं च सुरश्रेष्ठ चतुर्णामप्यसंशयम्
यश्चैतत्कीर्तयेन्मर्त्यः सदैव सुसा माहितः ६.२७.