वर्षंति जलदाः कामं भवन्त्योषधयोऽखिलाः तत्तत्र समभावेन न सत्यं नैव चानृतम्
तीर्थानां च मखानां च द्वापरे सुरसत्तम
एतत्तव समाख्यातं युगं द्वापरसंज्ञकम्
शृणुष्वावहितो भूत्वा वदतो मम सांप्रतम्
द्वात्रिंशच्च सहस्राणि वर्षाणां कथितं विभो
तत्रैकपादयुक्तश्च धर्मः पापं त्रिभिः स्मृतम्
न शृण्वंति पितुः पुत्रा न स्नुषा भ्रातरो न च
यत्र षोडशमे वर्षे नराः पलित यौवनाः
आयुः परं मनुष्याणां शतसंख्यं सुरेश्वर
द्वात्रिंशद्धयमुख्यानां चतुर्विंशतिः खरोष्ट्रयोः ६.२७.
चतुष्पदानामन्येषां विंशतिः पंचभिर्युता
तथा पापपरा लोका दुःस्थिताश्च विशेषतः सेवितास्तेऽपि गृध्राद्यैर्यत्र च्छायाविवर्जिताः
यत्र धर्मो ह्यधर्मेण पीड्यते सुरसत्तम
गुरवश्च तथा शिष्यैः स्त्रीभिश्च पुरुषाधमाः
यत्र सीदंति धर्मिष्ठा नराः सत्यपरायणाः
आधयो व्याधयश्चैव तथा पीडा महाद्भुता
अल्पायुषस्तथा मर्त्या जायंते वर्णसंकरात्
न वर्षति घनः काले संप्राप्तेऽपि यथोचिते
न च क्षीरप्रदा गावो यद्यपि स्युः सुपोषिताः
लोका भवंति निःश्रीकास्तथा ये च मलिम्लुचाः ६.२७.
तथा तपस्विनः शूद्राः शूद्रा धर्मपरायणाः
शूद्राः प्रतिग्रहीतारः शूद्रा दानप्रदास्तथा
पंचगर्तान्खनंत्येव मृत्युकाले नराधमाः
वेदविक्रयकर्तारो ब्राह्मणाः शौचवर्जिताः
स्वाध्यायरहिताश्चैव शूद्रान्ननिरताः सदा
पाखंडिनो विकर्मस्थाः परदारोपजीविनः
न स्वभावात्सहस्राक्ष कथंचिदपि देहिनाम्
नष्टोत्सवाविधर्माणो नित्यं संकरकारकाः
ततो ह्रासं प्रयास्यंति वृद्धिं याति कलौ युगे
अल्पत्वाद्दुर्लभत्वाच्च अशक्ता गृहकर्मणि ६.२७.