ततः पूर्णे सहस्रांते वर्षाणां नृपसत्तम
पूर्वं जाता महाराज धूममूर्तिर्भयावहा दृष्ट्वा तां तुष्टुवुर्देवाः कृतांजलिपुटास्ततः
नमोऽस्तु सर्वगे देवि नमस्ते सर्वपूजिते
नमस्ते परमादेवि ब्रह्मयोने नमोनमः
नमस्ते पद्मपत्राक्षि विश्वमातर्नमोनमः
स्वस्वरूपस्थिते देवि त्वं च संसारलक्षणम्
त्वं वृद्धिस्त्वं गतिः कर्त्री शची लक्ष्मीश्च पार्वती 7.3.22.
यच्चान्यदत्र देवेशि त्रैलोक्येऽस्तीतिसंज्ञितम्
वह्निना च यथा काष्ठं तंतुना च यथा पटः
वरो मे याच्यतां शीघ्रमभीष्टः सुरसत्तमाः
किमत्र गुप्तभावेन तिष्ठथ श्वभ्रमध्यगाः
देवा ऊचुः तेन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्
यज्ञभागो हृतोऽस्माकं दैत्यानां स प्रकल्पितः
हत्वा दैत्यान्यथा भूयः शक्रः स्वपदमाप्नुयात्
विशेषो नास्ति मे कश्चिदुभयोः सुरसत्तमाः
तस्मात्तान्वारयिष्यामि शक्राद्यांस्त्रिदिवात्पुनः
दूतं कलिंगदैत्याय त्यज त्वं त्रिदिवं द्रुतम् 7.3.22.
श्रीमाता जगतां माता देवैराराधिता परा
स्वस्थानं गच्छ शीघ्रं त्वं शक्रो यातु त्रिविष्टपम्
अहं लोकेश्वरो मत्वा सगर्वमिदमब्रवीत्
न तां जानामि तांश्चैव गत्वा ब्रूहि ममाज्ञया
न भवद्भ्यस्वहं स्वर्गं प्रयच्छामि कथंचन एतस्मात्कारणाद्दूत न त्वां प्राणैर्वियोजये
श्रीमातां यदि मे दूत दर्शयिष्यसि चेत्ततः
अहं त्वया समं तत्र यास्ये यत्र स्थिता च सा
अर्बुदं प्रययौ तूर्णं रोषेण महता वृतः
दृष्ट्वा बाष्कलिमायांतं देवाः शक्रपुरोगमाः
भयेन महताविष्टा दिशो भेजुः समंततः 7.3.22.
श्रीमाता तिष्ठते यत्र पर्वतेर्बुदसंज्ञके
भार्या मे भव सुश्रोणि अहं ते वशगः सदा
भविष्यति हि मे राज्यं सर्वं वशगतं तव