सोऽपि साक्षाजगन्नाथः श्वेतद्वीपाश्रयाश्रितः
त्रिपादस्तत्र धर्मः स्यात्पादेनैकेन पातकम्
ततः फलानि वांछंति तीर्थयात्रोद्भवानि ते
ततः कामवशान्मोहं सर्वे गच्छंति मानवाः
ततस्तु रौरवादीनि नरकाणि यमः स्वयम्
कर्मानुसारतस्तानि सेवयंति नराधमाः
त्रिविधाः पुरुषास्तत्र श्रेष्ठाश्चाधममध्यमाः
उन्नतास्तालमात्रेण तेजोवीर्यसमन्विताः
उप्तक्षेत्रं सकृच्चापि सप्तवारं लुनंति ते
यथर्तु पत्रसंयुक्तास्तत्र स्युः सुमनोहराः ६.२७.
इतरेतरसंस्पर्धैः क्रियमाणा नृपोत्तमैः
तीर्थयात्रां व्रतं दानं नियमं संयमं तथा
सहस्रेण तु वर्षाणां तत्र स्याद्यौवनं नृणाम्
रजकश्चर्मकारश्च नटो बुरुड एव च
संभवंति युगे तस्मिन्यो निसंसर्गतो विभो
यथावद्वद कार्त्स्न्येन अत्र कौतूहलं महत्
योनि दोषात्सुरश्रेष्ठ जातेर्वक्ष्याम्यहं स्फुटम्
ब्राह्मण्यां क्षत्रियाज्जातः सूत इत्यभिधीयते
चर्मकारेण संजज्ञे नटश्चांत्यजसंज्ञकः
तथा च मागधो जज्ञे वैश्येन द्विजसंभवे ६.२७.
बुरुडेन च कैवर्तः कैवर्तेन च मेदकः प्रजायन्ते सुरश्रेष्ठ सवकर्मसु गर्हिताः
तथा शूद्रेण संजज्ञे ब्राह्मण्यां सुरसत्तम
एतौ द्वावपि शूद्रेण भवतो द्विजसंभवे
एतत्त्रेतायुगे प्रोक्तं मया ते सुरसत्तम
लक्षाष्टकप्रमाणेन तद्युगं परिकीर्तितम् कपिशो जायते तत्र भगवान्गरुडध्वजः
द्वौ पादौ चैव धर्मस्य द्वौ पापस्य व्यवस्थितौ
ततोऽन्यैः समतिक्रांतैर्वार्धक्यं पञ्चभिः शतैः
नार्यश्चापि सुरश्रेष्ठ तत्स्व रूपाः प्रकीर्तिताः
नातिरूपेण संयुक्ता न च रूपविवर्जिताः
नातिपुष्पफलैर्युक्ता वृक्षाश्चापिसुरेश्वर ६.२७.