कस्मिंश्चिदथ संप्राप्ते प्रस्तावे त्रिदशेश्वरः
भगवञ्छ्रोतुमिच्छामि प्रमाणं युगसंभवम्
यत्प्रमाणं स्वरूपं च शृणुष्वावहितः स्थितः
अष्टाविंशतिसहस्राणि लक्षाः सप्तदशैव तु ६.२७.
कामक्रोधविनिर्मुक्ता भयद्वेषविवर्जिताः पञ्चतालप्रमाणाश्च दीप्तिमन्तो बहुश्रुताः
तत्र षोडशसाहस्रं बालत्वं जायते नृणाम्
ततः परं च वार्द्धक्यं शनैः संजायते नृणाम्
तत्र सत्त्वाश्च ये केचित्पशवः पक्षिणो मृगाः ॥ दैवीं वाचं प्रजल्पंति न विरोधं व्रजंति च ।ा
धेनवश्च प्रयच्छंति वांछितं स्वादु सत्पयः
न तत्र विधवा नारी जायते न च दुर्भगा ६.२७.
यथाजन्म तथा मृत्युः क्रमात्संजायते नृणाम्
न प्रेतत्वं च लोकानां मृतानां तत्र जायते
वेदांतगा द्विजाः सर्वे नित्यं स्वाध्यायशीलिनः
क्षत्रियाश्चापि भूपालमेकं कृत्वा सुभक्तितः
वैश्या वैश्यजनार्हाणि चक्रुः कर्माणि भूरिशः
मुक्त्वैकां द्विजशुश्रूषा न शूद्रास्तत्र चक्रिरे
न तत्र चांत्यजो जज्ञे न च संकरसंभवः
यजनं याजनं दानं व्रतं नियम एव च
एवंविधं सहस्राक्ष मया ते परिकीर्तितम्
ततस्त्रेतायुगं नाम द्वितीयं संप्रवर्तते ६.२७.
सोऽपि साक्षाजगन्नाथः श्वेतद्वीपाश्रयाश्रितः
त्रिपादस्तत्र धर्मः स्यात्पादेनैकेन पातकम्
ततः फलानि वांछंति तीर्थयात्रोद्भवानि ते
ततः कामवशान्मोहं सर्वे गच्छंति मानवाः
ततस्तु रौरवादीनि नरकाणि यमः स्वयम्
कर्मानुसारतस्तानि सेवयंति नराधमाः
त्रिविधाः पुरुषास्तत्र श्रेष्ठाश्चाधममध्यमाः
उन्नतास्तालमात्रेण तेजोवीर्यसमन्विताः
उप्तक्षेत्रं सकृच्चापि सप्तवारं लुनंति ते
यथर्तु पत्रसंयुक्तास्तत्र स्युः सुमनोहराः ६.२७.