गोपनीयं प्रयत्नेन वचनान्मम सर्वदा
महापातकयुक्तोऽपि पुरुषो येन कर्मणा
आनर्तविषये रम्यं सर्वतीर्थमयं शुभम्
तत्रैकमपि मासार्धं यो भक्त्या पूजयेद्धरम्
तस्मात्तत्र द्रुतं गत्वा त्वमाराधय शंकरम्
धर्मराजस्य संहष्टो मधुरां नगरीं प्रति
तावद्द्वितीयं गो कर्णं दूत आदाय संगतः ६.२६.
ततः प्रोवाच तं दूतं धर्मराजः प्रहर्षितः
यस्मात्कालात्ययं कृत्वाऽऽनीतोऽयं ब्राह्मणस्त्वया
ततस्तौ तत्क्षणान्मुक्तौ गोकर्णौ ब्राह्मणौ समम्
ततः स कथयामास गोकर्णः प्रथमो द्विजः
ततो गृहं परित्यज्य गोकर्णौ द्वावपि स्थितौ
लिंगे संस्थापिते ताभ्यां सीमांते दक्षिणोत्तरे
ततः शिवं समाराध्य तपः कृत्वा यथोचितम्
ताभ्यां मार्गचतुर्दश्यां कृष्णायां जागरः कृतः
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात्
क्षेत्रस्यास्य प्रमाणं च विस्तरेण चतुर्दिशम् ॥ ६.२६.
अत्रांतरे नरा ये च निवसंति द्विजोत्तमाः किं पुनर्नियतात्मानः शांता दांता जितेंद्रियाः
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः
किं पुनर्ये नरास्तत्र कृत्वा प्रायोपवेशनम्
तस्मात्सर्व प्रयत्नेन तत्क्षेत्रं सेव्यमेव हि
वापीकूपतडागेषु यत्रयत्र जलं द्विजाः
किं य्रज्ञैः किं वृथा दानैः क व्रतैः किं जपैरपि
एतत्पवित्रमायुष्यं मांगल्यं पापनाशनम्
प्रमाणं वद कार्त्स्न्येन परं कौतूहलं हि नः
यथा प्रोवाच विप्रेंद्रास्तद्वो वक्ष्यामि सांप्रतम्
पुरा शक्रं समासीनं सभायां त्रिदशैः सह
गन्धर्वाप्सरसश्चैव सिद्धविद्याधराश्च ये
कलाः काष्ठानिमेषाश्च नक्षत्राणि ग्रहास्तथा
तथा चक्रुः कथाश्चित्रा देवदानवरक्षसाम्