तीर्थयात्रापरो नित्यं देवतातिथिपूजकः
परोपकारसंयुक्तो नित्यं जपपरायणः
वापीकूपतडागानि देवतायतनानि च
हेमंते वह्निदो यः स्यात्तथा ग्रीष्मे जलप्रदः
व्रतोपवाससंयुक्तः शांतात्मा विजितेंद्रियः
अन्नप्रदो नरो यः स्याद्विशेषेण तिलप्रदः
वेदाध्ययनसंपन्नः शास्त्रासक्तः सुमृष्टवाक् ६.२६.
न याति नरकं स्वर्गे तथा पापक्रियारतः
तस्मादशुभकर्मापि कर्मणा येन पातकम्
तन्मेब्रूहि सुरश्रेष्ठ व्रतं नियममेव वा
गोपनीयं प्रयत्नेन वचनान्मम सर्वदा
महापातकयुक्तोऽपि पुरुषो येन कर्मणा
आनर्तविषये रम्यं सर्वतीर्थमयं शुभम्
तत्रैकमपि मासार्धं यो भक्त्या पूजयेद्धरम्
तस्मात्तत्र द्रुतं गत्वा त्वमाराधय शंकरम्
धर्मराजस्य संहष्टो मधुरां नगरीं प्रति
तावद्द्वितीयं गो कर्णं दूत आदाय संगतः ६.२६.
ततः प्रोवाच तं दूतं धर्मराजः प्रहर्षितः
यस्मात्कालात्ययं कृत्वाऽऽनीतोऽयं ब्राह्मणस्त्वया
ततस्तौ तत्क्षणान्मुक्तौ गोकर्णौ ब्राह्मणौ समम्
ततः स कथयामास गोकर्णः प्रथमो द्विजः
ततो गृहं परित्यज्य गोकर्णौ द्वावपि स्थितौ
लिंगे संस्थापिते ताभ्यां सीमांते दक्षिणोत्तरे
ततः शिवं समाराध्य तपः कृत्वा यथोचितम्
ताभ्यां मार्गचतुर्दश्यां कृष्णायां जागरः कृतः
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात्
क्षेत्रस्यास्य प्रमाणं च विस्तरेण चतुर्दिशम् ॥ ६.२६.
अत्रांतरे नरा ये च निवसंति द्विजोत्तमाः किं पुनर्नियतात्मानः शांता दांता जितेंद्रियाः
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः
किं पुनर्ये नरास्तत्र कृत्वा प्रायोपवेशनम्