न्यासापहारकाः पापास्तत्र बद्धाश्च बंधनैः
तथा चतुर्दशोनाम नरकोऽधोमुखः स्थितः
अत्र चाधोमुखा बद्धा वृक्षशाखावलंबिताः
यूकामत्कुणदंशाद्यैः संकीर्णोऽयं द्विजोत्तम
कूटसाक्ष्यरतानां च तथैवानृतवादिनाम्
एष षोडश उद्दिष्टो नरको नाम क्षुद्रदः
तथा सप्तदशश्चायं क्षाराख्यो नरकः स्मृतः ६.२६.
व्रतभंगकरा ये च ये च पाषण्डिनो नराः
एष चाष्टादशो नाम कथितश्च निदाघकः
दूषयंति च ये शास्त्रं काव्यं विप्रं च कन्यकाम्
एकोनविंशतिश्चायं प्रख्यातः कूटशाल्मलिः ॥ सुतीक्ष्णकंटकाकीर्णः समंताद्द्विजसत्तम ।ा
नास्तिका भिन्नमर्यादा ये च विप्रस्य घातकाः
एष विंशतिमो नाम नरको द्विजसत्तम
अत्र यांति नरा विप्र पररंध्रनिरीक्षकाः
एकविंशतिमा चैषा नाम्ना वैतरणी नदी
मृत्युकाले समुत्पन्ने धेनुं यच्छंति ये नराः
अदत्त्वा गां च ये मर्त्या म्रियंते द्विजसत्तम ६.२६.
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तम
तस्माद्गच्छ गृहं शीघ्रं यावद्गात्रं न दह्यते
ब्राह्मण उवाच यदि देव मया सम्यग्गंतव्यं निजमंदिरम्
तीर्थयात्रापरो नित्यं देवतातिथिपूजकः
परोपकारसंयुक्तो नित्यं जपपरायणः
वापीकूपतडागानि देवतायतनानि च
हेमंते वह्निदो यः स्यात्तथा ग्रीष्मे जलप्रदः
व्रतोपवाससंयुक्तः शांतात्मा विजितेंद्रियः
अन्नप्रदो नरो यः स्याद्विशेषेण तिलप्रदः
वेदाध्ययनसंपन्नः शास्त्रासक्तः सुमृष्टवाक् ६.२६.
न याति नरकं स्वर्गे तथा पापक्रियारतः
तस्मादशुभकर्मापि कर्मणा येन पातकम्
तन्मेब्रूहि सुरश्रेष्ठ व्रतं नियममेव वा