आयुःशेषेण विप्रेन्द्र पूर्णेनाथ त्यजामि न
तत एव हि मे नाम धर्मराज इति स्मृतम्
तस्माद्गच्छ गृहं विप्र यावद्गात्रं न दह्यते
प्रार्थयस्व मनोऽभीष्टं वरं ब्राह्मणसत्तम
तन्ममाचक्ष्व पृच्छामि वरश्चैष भवेन्मम
एते ये नरका रौद्राः सेविताः पापकर्मभिः
कृत्स्नशः कथितुं शक्या नैववर्षशतैरपि
कीर्तयिष्यामि तेषां ते प्राधान्येन द्विजोत्तम
आद्योऽयं रौरवो नाम नरको द्विजसत्तम ६.२६.
हा मातस्तात पुत्रेति प्रकुर्वंति सुदारुणम्
द्वितीय एष विप्रेंद्र महारौरवसंज्ञितः
रोरूयमाणैर्दाहार्तैः पच्यमानै र्हविर्भुजा
तृतीयोंऽधतमोनाम नरकः सुभयावहः
दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः
चतुर्थोऽयं प्रतप्ताख्यो नरकः संप्रकीर्तितः
यैः कृता सततं निंदा गुरुदेवतपस्वि नाम्
एषोऽन्यः पंचमो नाम सुप्रसिद्धो विदारकः
प्राणांतिकं पुरा दत्तं यैर्दुःखं प्राणिनां नरैः ६.२६.
बीभत्सुरिति विख्यातः सप्तमो नरकाधमः
राजगामि च पैशुन्यं यैः कृतं सुदुरात्मभिः
कुत्सितोनाम विख्यातो द्विजायं चाष्टमोऽधमः
गुरुदेवातिथिभ्यश्च स्वभृत्येभ्यो विशेषतः
एष दुर्गमनामा च नवमो द्विजसत्तम
एकसार्थप्रयाताय क्षुत्क्षामायावसीदते
दशमोऽयं सुविख्यातो नरको नामदुः सहः
ये पापाः परदारेषु रक्ता मिष्टामिषेषु वा
एकादशोऽपरश्चायमाकर्षाख्यः प्रकीर्तितः
स्त्रीविप्रगुरुदेवानां वित्तं चाश्नंति ये नराः ६.२६.
संदंशो द्वादशश्चायं तथाऽभक्ष्यप्रभक्षकाः
एष त्रयोदशोनाम सुविख्यातो नियंत्रकः