सर्वस्वं प्रददौ रुष्टो मरणे कृतनिश्चयः
साऽपि तस्य सती भार्या कृत्वा मृत्युविनिश्चयम्
आवाभ्यां संप्रविष्टाभ्यां वह्नौ पुत्र ततस्तदा ६.२५.
ततस्तौ दम्पती हृष्टौ यावद्वह्निसमीपगौ
तावत्प्राप्तो मुनिर्नाम शांडिल्यो वेदपारगः
स वृत्तांतं समाकर्ण्य कोपसंरक्तलोचनः
अहो मूढतमा यूयं यदेतद्ब्राह्मणत्रयम्
अत्र कात्यायनेनोक्तं यद्वचः सुमहात्मना
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च
अत्र विष्णुपदी गंगा तत्क्षेत्रे तु द्विजोत्तमाः
मौंजीहोमः प्रमाणं स्यान्मुनिवाक्येन चेद्भवेत्
ततस्ते ब्राह्मणाः सर्वे हर्षेण महतान्विताः
ततः प्रबोध्य तं विप्रं निन्युस्तत्र द्विजोत्तमाः ६.२५.
तत्र स ब्राह्मणो यावद्गंगातोयसमुद्भवम् उदरादखिलं तोयं निष्क्रांतं द्विजसत्तमाः
ततोऽवगाहते यावत्तस्यास्तोयं सुशोभनम्
शुद्धोऽयं ब्राह्मणः साक्षाद्विष्णुपद्याः समागमात्
ततस्ते ब्राह्मणाः सर्वे चंडशर्मादयश्च ये
तस्य क्षेत्रस्य सीमांते पश्चिमे पापनाशिनी
एतद्वः सर्वमाख्यातं विष्णुपद्याः समुद्भवम्
दक्षिणोत्तरसंभूतं तद्वो वक्ष्यामि सांप्रतम्
अस्ति भूभितले ख्याता मधुराख्या महापुरी
तस्यामासीद्द्विजश्रेष्ठो गोकर्ण इति विश्रुतः
अथापरोऽस्ति तन्नामा तत्र विप्रो वयोऽन्वितः
कस्यचित्त्वथकालस्य यमः प्राह स्वकिंकरम्
अद्य गच्छ द्रुतं दूत मथुराख्यां महापुरीम्
तस्यायुषः क्षयो जातो मध्याह्नेऽद्यतने दिने .
विभ्रमादानयामास गोकर्णं च चिरायुषम्
ततः कोपपरीतात्मा यमः प्रोवाच किंकरम्
तस्मात्प्रापय तत्रैव यावदस्य च बन्धुभिः ६.२६.
ब्राह्मण उवाच नाहं तत्र गमिष्यामि दिष्ट्या प्राप्तोस्मि तेंऽतिकम्