तस्मात्सर्व प्रयत्नेन स्नानं तत्र समाचरेत
विष्णोः पदस्य संप्राप्ते अयने दक्षिणोत्तरे
तत्केन विधिना सूत मन्त्रैश्च वद सत्वरम्
दक्षिणे चोत्तरे चापि संप्राप्ते चायनद्वये
षण्मासाभ्यंतरे मृत्युर्यद्यकस्माद्भवेन्मम
एवं प्रोच्य हरिं पश्चात्पूजयेद्ब्राह्मणांस्ततः
तद्वोऽहं संप्रवक्ष्यामि गंगामाहात्म्यसंभवम्
चमत्कारपुरे विप्रः पुरासीत्संशितव्रतः
स यदा यौवनोपेतस्तदा वेश्यानुरागकृत्
स कदाचिन्निशीथेऽथ तृषार्तश्च समुत्थितः
अथ सा सलिलभ्रांत्या करकं मद्यसंभवम्
मुखमध्यगते मद्ये सोऽपि तां कोपसंयुतः
किमिदंकिमिदं पापे त्वया कर्म विगर्हितम्
ब्राह्मण्यमद्य मे नष्टं मद्यपानादसंशयम्
एवमुक्त्वा विनिष्क्रम्य तद्गृहाद्दुःखसंयुतः
ततः प्रभातवेलायां स्नात्वा वस्त्रसमन्वितः ६.२५.
संप्राप्तो विप्रमुख्यानां सभा यत्र व्यवस्थिता
अथासौ प्रणिपत्योच्चैः प्रोवाच द्विजसत्तमान्
अथ ते धर्मशास्त्राणि प्रविचार्य पुनःपुनः
अज्ञानाज्ज्ञानतो वापि सुरां चेद्ब्राह्मणः पिबेत्
स त्वं वांछसि चेच्छुद्धिमग्निवर्णं घृतं पिब
स तथेति प्रतिज्ञाय घृतमादाय तत्क्षणात्
तावत्तस्य पिता प्राप्तः श्रुत्वा वार्तां सभार्यकः अश्रुपूर्णेक्षणो दीनो वाष्पगद्गदया गिरा
संचिन्त्य धर्मशास्त्राणि विचार्य च पुनः पुनः ६.२५.
नान्यदस्ति सुरापाने प्रायश्चित्तं द्विजन्मनाम्
ततः स स्वसुतं प्राह नैव त्वं कर्तुमर्हसि
ततः शुद्धिं समाप्नोषि क्रमान्नियमसंयुतः
न ब्राह्मणसमादिष्टं प्रायश्चित्त विशुद्धये
तस्मात्कार्यो मया तात मौंजीहोमो न संशयः
यन्मया तु कृतं बाल्ये तत्सर्वं क्षंतुमर्हसि