ब्रह्मलोकं तदा कृत्स्नं प्लावयित्वा जलं हि तत् मत्स्यकच्छपसंकीर्णं ग्राहयूथैः समाकुलम्
ततः प्रभृति सा लोके गंगा विष्णुपदी स्मृता
एवं विष्णोः पदं तत्र संजातं मुनिसत्तमाः
यस्तस्यां श्रद्धया युक्तः स्नानं कृत्वा यथोदितम्
यस्तत्रकुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः
माघमासे नरः स्नानं प्रातरुत्थाय तत्र यः
अथवा वत्सरं यावत्क्षणं कृत्वात्र भक्तितः
यस्यास्थीनि जले तत्र क्षिप्यंते मनुजस्य च
अपि पक्षिपतंगा ये पशवः कृमयो मृगाः
तेऽपि पापविनिर्मुक्ता देहांते चातिदुर्लभम् 6.24.
किं पुनः श्रद्धयोपेताः पर्वकाल उपस्थिते
तत्र गाथा पुरा गीता नारदेन महर्षिणा
किं व्रतैर्नियमैर्वापि तपोभिर्विविधैर्मखैः
एकः सर्वेषु तीर्थेषु स्नानं मर्त्यः समाचरेत्
एको दानानि सर्वाणि ब्राह्मणेभ्यः प्रयच्छति
पञ्चाग्निसाधको ग्रीष्मे वर्षास्वाकाशमाश्रितः
अन्यो विष्णुपदीतोये स्नात्वा विष्णुपदं स्पृशेत्
एकांतरोपवासी य एकः स्याज्जीवितावधि
त्रिरात्रोपोषितस्त्वेको यावद्वर्षशतं नरः
विरराम मुनीनां स बहूनां पुरतोऽसकृत् ॥ 6.24.
तस्मात्सर्व प्रयत्नेन स्नानं तत्र समाचरेत
विष्णोः पदस्य संप्राप्ते अयने दक्षिणोत्तरे
तत्केन विधिना सूत मन्त्रैश्च वद सत्वरम्
दक्षिणे चोत्तरे चापि संप्राप्ते चायनद्वये
षण्मासाभ्यंतरे मृत्युर्यद्यकस्माद्भवेन्मम
एवं प्रोच्य हरिं पश्चात्पूजयेद्ब्राह्मणांस्ततः
तद्वोऽहं संप्रवक्ष्यामि गंगामाहात्म्यसंभवम्
चमत्कारपुरे विप्रः पुरासीत्संशितव्रतः
स यदा यौवनोपेतस्तदा वेश्यानुरागकृत्
स कदाचिन्निशीथेऽथ तृषार्तश्च समुत्थितः