अथ तान्मानुषीभूतान्पप्रच्छुर्लुब्धका मृगान् केन मार्गेण निर्यातं तस्माद्वदत मा चिरम्
तीर्थस्याऽस्य प्रभावेन प्राप्ताः सत्यं न संशयः
स्नानमात्रात्ततः सर्वे दिव्यमाल्यानुलेपनाः
स्नानमात्रेण ते प्राप्ता लुब्धकास्तादृशं वपुः
तथा मानुष्यमापन्ना मृगास्तोयावगाहनात्
आच्छन्नं पांसुभिः कृत्स्नं वायुना शक्रशासनात्
वल्मीकरंध्रमासाद्य तन्निष्क्रांतं पुनर्द्विजाः
यत्र स्नातः पुरा सद्यस्त्रिशंकुः पृथिवीपतिः ६.२३.
एतस्मात्कारणात्तत्र स्नाताः सारंगलुब्धकाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मृगतीर्थमाहात्म्यवर्णनंनामत्रयोविंशोऽध्यायः
अपरं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्
अयने दक्षिणे प्राप्ते यस्तत्पूज्य समाहितः
स मृतोऽप्ययने याम्ये तद्विष्णोः परमं पदम्
तथा चैवोत्तरे प्राप्ते पूजयित्वा यथाविधि सोऽपि विष्णोः पदं पुण्यं प्राप्य संजायते सुखी
कथं निवेद्यते तत्र सम्यगात्माऽ यनद्वये
तस्मिन्दृष्टेऽथवा स्पृष्टे यत्फलं लभ्यते नरैः
तदा क्रमैस्त्रिभिर्व्याप्तं त्रैलोक्यं सचराचरम्
हाटकेश्वरजे क्षेत्रे संन्यस्तः प्रथमः क्रमः
तृतीयस्य समुद्योगं यदा चक्रे स चक्रधृक्
पादाग्रेणाथ संभिन्ने ब्रह्मांडे निर्मलं जलम् 6.24.
ब्रह्मलोकं तदा कृत्स्नं प्लावयित्वा जलं हि तत् मत्स्यकच्छपसंकीर्णं ग्राहयूथैः समाकुलम्
ततः प्रभृति सा लोके गंगा विष्णुपदी स्मृता
एवं विष्णोः पदं तत्र संजातं मुनिसत्तमाः
यस्तस्यां श्रद्धया युक्तः स्नानं कृत्वा यथोदितम्
यस्तत्रकुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः
माघमासे नरः स्नानं प्रातरुत्थाय तत्र यः
अथवा वत्सरं यावत्क्षणं कृत्वात्र भक्तितः
यस्यास्थीनि जले तत्र क्षिप्यंते मनुजस्य च
अपि पक्षिपतंगा ये पशवः कृमयो मृगाः
तेऽपि पापविनिर्मुक्ता देहांते चातिदुर्लभम् 6.24.