सूत उवाच अस्ति पुण्यतमं ख्यातं समस्ते धरणीतले । तत्र ये मानवास्तीर्थे सम्यक्छ्रद्धासमन्विताः
मध्ये स्थिते न ते यांति तिर्यग्योनौ कथंचन
कृतघ्ना नास्तिकाश्चौरा मर्यादाभेदकास्तथा विमानवरमारूढाः स्तूयमानाश्च किंनरैः
किं प्रभावं समाचक्ष्व परं कौतूहलं हि नः
नानाविहंगसंघुष्टे नानावृक्षसमाकुले
समायाता महारौद्रा लुब्ध काश्चापपाणयः
एतस्मिन्नंतरे दृष्टं मृगयूथं तरोरधः
अथ ताँल्लुब्धकान्दृष्ट्वा दूरतोऽपि भयातुराः
अथ ते सन्निधौ दृष्ट्वा गंभीरं सलिलाशयम् ६.२३.
ततस्तत्सलिलस्यांतस्ते मृगाः सर्व एव हि
अथ तान्मानुषीभूतान्पप्रच्छुर्लुब्धका मृगान् केन मार्गेण निर्यातं तस्माद्वदत मा चिरम्
तीर्थस्याऽस्य प्रभावेन प्राप्ताः सत्यं न संशयः
स्नानमात्रात्ततः सर्वे दिव्यमाल्यानुलेपनाः
स्नानमात्रेण ते प्राप्ता लुब्धकास्तादृशं वपुः
तथा मानुष्यमापन्ना मृगास्तोयावगाहनात्
आच्छन्नं पांसुभिः कृत्स्नं वायुना शक्रशासनात्
वल्मीकरंध्रमासाद्य तन्निष्क्रांतं पुनर्द्विजाः
यत्र स्नातः पुरा सद्यस्त्रिशंकुः पृथिवीपतिः ६.२३.
एतस्मात्कारणात्तत्र स्नाताः सारंगलुब्धकाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मृगतीर्थमाहात्म्यवर्णनंनामत्रयोविंशोऽध्यायः
अपरं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्
अयने दक्षिणे प्राप्ते यस्तत्पूज्य समाहितः
स मृतोऽप्ययने याम्ये तद्विष्णोः परमं पदम्
तथा चैवोत्तरे प्राप्ते पूजयित्वा यथाविधि सोऽपि विष्णोः पदं पुण्यं प्राप्य संजायते सुखी
कथं निवेद्यते तत्र सम्यगात्माऽ यनद्वये
तस्मिन्दृष्टेऽथवा स्पृष्टे यत्फलं लभ्यते नरैः
तदा क्रमैस्त्रिभिर्व्याप्तं त्रैलोक्यं सचराचरम्
हाटकेश्वरजे क्षेत्रे संन्यस्तः प्रथमः क्रमः
तृतीयस्य समुद्योगं यदा चक्रे स चक्रधृक्
पादाग्रेणाथ संभिन्ने ब्रह्मांडे निर्मलं जलम् 6.24.