एवं तत्र समुत्पन्नं तीर्थं तद्बालमंडनम् ॥। स्वामिद्रोहकृतात्पापान्मुच्यंते यत्र मानवाः
एतद्वः सर्वमाख्यातं बालमंडनसंभवम्
आश्विनस्य सिते पक्षे दशम्यादि यथाक्रमम्
तीर्थानां स हि सर्वेषां स्नानजं लभते फलम् ६.२२.
तस्मिन्काले सहस्राक्षः समागच्छति भूतले
यावद्भूमितले शक्रस्तिष्ठत्येवं द्विजोत्तमाः
तस्मात्सर्वप्रयत्नेन तस्मिन्काले विशेषतः
अत्र श्लोकौ पुरा गीतौ नारदैन सुर षिंणा
बालमंडनके स्नात्वा शक्रेश्वरमथेक्षयेत् स पापैर्मुच्यते सर्वैराजन्ममरणाद्भुवि
प्रभावात्तस्य तीर्थस्य सत्यमेतद्द्विजोत्तमाः
सूत उवाच अस्ति पुण्यतमं ख्यातं समस्ते धरणीतले । तत्र ये मानवास्तीर्थे सम्यक्छ्रद्धासमन्विताः
मध्ये स्थिते न ते यांति तिर्यग्योनौ कथंचन
कृतघ्ना नास्तिकाश्चौरा मर्यादाभेदकास्तथा विमानवरमारूढाः स्तूयमानाश्च किंनरैः
किं प्रभावं समाचक्ष्व परं कौतूहलं हि नः
नानाविहंगसंघुष्टे नानावृक्षसमाकुले
समायाता महारौद्रा लुब्ध काश्चापपाणयः
एतस्मिन्नंतरे दृष्टं मृगयूथं तरोरधः
अथ ताँल्लुब्धकान्दृष्ट्वा दूरतोऽपि भयातुराः
अथ ते सन्निधौ दृष्ट्वा गंभीरं सलिलाशयम् ६.२३.
ततस्तत्सलिलस्यांतस्ते मृगाः सर्व एव हि
अथ तान्मानुषीभूतान्पप्रच्छुर्लुब्धका मृगान् केन मार्गेण निर्यातं तस्माद्वदत मा चिरम्
तीर्थस्याऽस्य प्रभावेन प्राप्ताः सत्यं न संशयः
स्नानमात्रात्ततः सर्वे दिव्यमाल्यानुलेपनाः
स्नानमात्रेण ते प्राप्ता लुब्धकास्तादृशं वपुः
तथा मानुष्यमापन्ना मृगास्तोयावगाहनात्
आच्छन्नं पांसुभिः कृत्स्नं वायुना शक्रशासनात्
वल्मीकरंध्रमासाद्य तन्निष्क्रांतं पुनर्द्विजाः
यत्र स्नातः पुरा सद्यस्त्रिशंकुः पृथिवीपतिः ६.२३.
एतस्मात्कारणात्तत्र स्नाताः सारंगलुब्धकाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मृगतीर्थमाहात्म्यवर्णनंनामत्रयोविंशोऽध्यायः