छिद्रमन्वेषमाणस्तु सुसूक्ष्ममपि च द्विजाः
ततश्च दशमे मासि संप्राप्ते प्रसवोद्भवे
निद्रावशं तु संप्राप्ता विसंज्ञा समपद्यत
तां विसंज्ञामथो वीक्ष्य त्यक्त्वा पादौ शतक्रतुः तेनाऽसौ सप्तधा चके गर्भं शस्त्रेण देवपः
अथाऽपश्यत्क्षणात्सप्त वालकान्पूर्णविग्रहान्
जाता एकोनपञ्चाशदथ तत्रैव बालकाः निश्चक्रामोदरातूर्णं दित्या यावन्न लक्षितः ॥ ६.२२.
ततः प्रभाते विमले प्रोद्गते रविमंडले
ततोऽभ्येत्य सहस्राक्षो दुर्गंधेन समावृतः
तं दृष्ट्वा तादृशं शक्रं दितिः प्रोवाच सादरम्
किं त्वं शक्र निरु त्साहस्तेजोद्युतिविवर्जितः
किं त्वया निहतो विप्रोगुरुर्वाबालकोऽथवा
हतो नखांभसा वा त्वं घृष्टः शूर्पानिलेन च
रात्रौ प्रविष्टः सुप्ताया जठरे तव पापकृत्
कृन्तश्चैकोनपञ्चाशत्कृत्वो गर्भो मया शुभे
ततो भीत्या विनिष्क्रान्तस्त्वया देवि न लक्षितः
तस्मात्प्रार्थय मत्तस्त्वं वरं यन्मनसेप्सि तम् ॥ ६.२२.
रुदन्तो वारिता मन्दं मा रुदन्तु मुहुर्मुहुः
मरुतो नामविख्यातास्तस्मात्संतुजगत्रये
यज्ञभागभुजः सर्वे भविष्यंति मया सह
बहुभिर्यास्यति ख्यातिं बालमंडनमित्यतः न भविष्यंति छिद्राणि तस्या गर्भे कथंचन
प्राप्ते प्रसवकाले तु या जलं प्राशयिष्यति
दितिरुवाच तवोच्छेदाय देवेश याचितः प्राङ्मया हरः
त्वया चैकोनपंचाशत्प्रकारः स विनिर्मितः
यज्ञभागस्य भोक्तारो दितेः शक्रस्य शासनात्
अथ प्राह सहस्राक्षो देवाचार्यं बृहस्पतिम्
लिंगं संस्थापयामास स्वयमेव द्विजोत्तमाः
त्रिकालं पूजयामासपुष्पधूपानुलेपनैः
ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः
मातुर्द्रोहकृतं पापं यातु मे त्रिपुरांतक पूजयिष्यंति सद्भक्त्या स्नानं कृत्वा समाहिताः
सूत उवाच स तथेति प्रतिज्ञाय जगामादर्शनं हरः