ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा
तस्मात्कृतघ्नतादोषो न स्यान्मम मुनीश्वराः
गृहं कुरुष्व नो वाक्याद्देवस्य परमेष्ठिनः
येनाऽयं बालकस्तेऽद्य कृतो मृत्युविवर्जितः
पुत्रेण सहितः पश्चादाराधय दिवानिशम्
नित्यं प्रपूजयिष्यामस्तथान्येऽपि द्विजोत्तमाः बालसख्यमिति ख्यातं नाम्ना तेन भविष्यति
तीर्थमन्यैरिति ख्यातं बालकानां हितावहम्
अस्मिंस्तीर्थे शिशुं लोकाः स्नापयिष्यंति ये द्विज
भविष्यति न संदेहः सर्वदोषविवर्जितः
ये पुनर्मानुषा विप्र निष्कामाः श्रद्धयान्विताः ६.२१.
एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः
मृकण्डोऽपि सपुत्रश्च तस्मिन्स्थाने पितामहम्
ततश्चाऽऽराधयामास दिवारात्रमतंद्रितः
पावनं सर्वजंतूनां बालानां रोगनाशनम्
ज्येष्ठे ज्येष्ठासु यो बालस्तत्र स्नानं समाचरेत्
ग्रहभूतपिशाचानां शाकिनीनां विशेषतः
स्वामिद्रोहकृतात्पापान्निर्मुक्तो यत्र लक्ष्मणः
कथं तत्र पुरा शक्रः स्वामिद्रोहसमुद्भवात्
कस्माद्दितेर्महेन्द्रेण कृतं कृत्यं तथाविधम्
स च संजनयामास पचाशत्कन्यकाः शुभाः
ददौ च दश धर्माय कश्यपाय त्रयोदश
अदितिश्च दितिश्चैव द्वे भार्ये मुख्यतां गते
ततः स जनयामास देवाञ्च्छक्रपुरःसरान्
तेषां त्रैलोक्यराज्यार्थं मिथो जज्ञे महाहवः
ततः शोकपरा चक्रे दितिर्व्रतमनुत्तमम्
ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ६.२२.
साऽब्रवीद्यदि मे तुष्टस्त्वं देव शशिशेखर यज्ञभागप्रभोक्तारं देवानां दर्पनाशनम्
अवध्यं संगरे पूर्वैः सर्वैदेवैः सवासवैः
दितिश्चैवाऽदधाद्गर्भं कश्यपान्मुनिपुंगवात् वदतो मुनिमुख्यस्य नारदस्य महात्मनः
ततो दुष्टां मतिं कृत्वा तस्य गर्भस्य नाशने