गयाश्राद्धसमं पुण्यं तेषां चंद्र भविष्यति
चन्द्रोऽपि बुभुजे सर्वाः पत्नीश्च दक्षसंभवाः
तीर्थं यत्र तपस्तप्तं पिण्डोदकद्विजातिना
पुरा पिण्डोदकोनाम ब्राह्मणोऽभून्महामते
अशक्तोऽध्ययनं कर्तुं जाड्यभावान्महीपते
एतस्मिन्नेव कालेतु तत्रैव च सरस्वती
तं दृष्ट्वा ब्राह्मणं खिन्नं वैराग्येण समन्वितम्
कस्मान्न हृष्यसि हृदा कस्मादत्र त्वमागतः
ज्ञानहीनो महाभागे मृत्युं वांछामि सांप्रतम्
न मे सरस्वती देवी जिह्वाग्रे परिवर्तते मरणं हि मम श्रेयो मूकभावान्न जीवितम्
. निशासुखे त्रयोदश्यां करोमि वसतिं द्विज 7.3.21.
एतत्तीर्थं तु मन्नाम्ना ख्यातिं यातु शुचिस्मिते
नाम्ना तव तथा तीर्थमेतत्ख्यातिं प्रयास्यति
निशामुखे त्रयोदश्यां योऽत्र स्नानं करिष्यति
अत्र मे सततं वासो भविष्यति द्विजोत्तम
एवमुक्त्वा ततो देवी तत्रैवांतरधीयत व्यस्मापयज्जनान्सर्वांस्तत्तीर्थस्य समाश्रयात्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिण्डोदकतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः
सर्वकामप्रदां नृणामिहलोके परत्र च
या च सर्वमयी शक्तिर्यया व्याप्तमिदं जगत्
पुरा देवयुगे राजा कलिंगोनाम दानवः
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ब्रह्मलोकमनुप्राप्तो देवैः सर्वैः समन्वितः
तेन दैत्येन सर्वेऽपि त्रासिताः सुरमानवाः
वसवो मरुतः साध्या विश्वेदेवाः सुरर्षयः
यज्ञभागान्स्वयं सर्वे बुभुजुस्ते च दानवाः
अद्यापि देवताखातं त्रैलोक्ये ख्यातिमागतम्
अव्यक्ताः परमत्रासाद्ध्यायंतस्ते च संस्थिताः
एकाहारा निराहारा वायुभक्षास्तथा परे 7.3.22.
कृच्छ्रसांतपने निष्ठा महापाराकिणः परे
जपहोमपराश्चान्ये ध्यानासक्तास्तथा परे
पूजयंतः परां शक्तिं देवीं स्वकार्यहेतवे विमुक्तिरभवद्राजन्सर्वेषां कर्मबन्धनात्