यावदस्य पिता वृद्धः पुत्रदर्शनविह्वलः ३९. आगत्य वसुधापृष्ठं तस्यैवाश्रमसंनिधौ ॥ ६.२१.
अमुंचन्नग्नितीर्थे तं समाभाष्य ततः परम्
एतस्मिन्नंतरे विप्रो मृकंडः सुतवत्सलः
अहो मे तनयोऽभीष्टः कथमद्य न दृश्यते
कृत्वा मां दुःखसंतप्तं मातरं चापि पुत्रकः
पश्य ब्राह्मणि पापेन मया दुष्कृतकारिणा
कथितं ज्ञानिना तेन मम पूर्वं महात्म ना
सोऽहं पुत्रस्य दुःखेन साधयिष्ये हुताशनम्
तत्किं चिरयसि ब्रह्मञ्छीघ्रं दारूणि चानय
येनाऽहं भवता सार्धं प्रवेक्ष्यामि हुताशनम्
आजगामाऽथ संहृष्टः स बालः सन्निधिं तयोः ॥ ६.२१.
तं दृष्ट्वा ब्राह्मणो हृष्टो ब्राह्मण्या सहितस्तदा
भूयोभूयः परिष्वज्य सभार्यः पृष्टवांस्तदा
शोकार्णवे परिक्षिप्य मां सभार्यं वयोऽधिकम्
क्रमेण विनयात्तात स्मरमाणेन ते वचः ॥ ५४ दीर्घायुर्भव तैरुक्तः सर्वैरेव द्विजोत्तमैः
अथ तात समालोक्य तेषां मध्यगतो मुनिः
तृतीये दिवसे सोऽयं बालः पंचत्वमेष्यति
ततस्ते मुनयो भीता असत्यात्तात तत्क्षणात्
नमस्कृतेन तेनाऽपि प्रोक्तोऽहं पद्मयोनिना ॥ दीर्घायुर्भव पृष्टश्च कुतस्त्वमिह चागतः
अथ तैर्मुनिभिः सर्वैर्वृत्तांतं तस्य कीर्तितम् ६.२१.
यथाऽयं बालको देव त्वत्प्रसादात्पितामह
ततोऽहं ब्रह्मणा तात जरामरणवर्जितः
ते तु मां मुनयोत्रैव प्रमुच्याश्रमसन्निधौ
तच्छ्रुत्वा वचनं तस्य मृकंडो हर्षसंयुतः
प्रणम्य तान्मुनीन्सर्वान्कृताञ्जलिपुटः स्थितः
साधु प्रोक्तमिदं कैश्चिदाचार्यैर्मुनिसत्तमाः
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः
तस्मादतिथयः प्राप्ता यूयं सर्वेऽद्य मे गृहम्
अल्पायुरपि ते बालो यज्जातो मृत्युवर्जितः
भवद्भिरद्य संरक्ष्य कुलं कृत्स्नं समुद्धृतम् ॥ ६.२१.