स तं शिशुं समालोक्य नखाग्रान्मूर्द्धजावधिम्
मृकंडोऽपि समालोक्य ज्ञानिनं सस्मिताननम्
सुचिरं विस्मयाविष्टस्ततोऽभूः सस्मिताननः ॥ ६.२१.
ततश्च कथयामास हास्यकारणमेव हि
गात्रस्थानि भवेत्सत्यं तैः पुमानजरामरः
अस्य भावि पुनश्चाऽस्माद्दिवसान्निधनं शिशोः
एवं ज्ञात्वा द्विजश्रेष्ठ कुरुष्वाऽस्य हितं च यत्
एवमुक्त्वा स विप्रेंद्रो जगामाऽभीप्सितां दिशम्
अकालेऽपि कुमारस्य किंचिद्ध्यात्वा निजे हृदि
यं कं चिद्वीक्षसे पुत्र भ्रममाणं द्विजोत्तमम्
एवं तस्य व्रतस्थस्य षण्मासा दिवसैस्त्रिभिः
तान्दृष्ट्वा स मुनीन्सर्वान्नमश्चक्रे मुनेः सुतः ६.२१.
अथ तं बालभावेन कौतुकाद्ब्रह्मचारिणः
सर्वैरेष शिशुः प्रोक्तो दीर्घा युरिति सादरम्
तन्न युक्तं भवेदीदृगस्माकं वचनं द्विजाः
ततो मिथः समालोच्य सर्वे ते मुनिपुंगवाः
तस्मात्तस्य पुरो नीत्वा बालोऽयं क्षीणजीवितः
ततस्तु ते समादाय सत्वरं ब्रह्मचारिणम्
ततः प्रणम्य तं देवं वेदोक्तैः स्तवनैर्द्विजाः
तेषामनंतरं सोऽपि नमश्चक्रे पितामहम्
अथोवाच मुनीन्सर्वान्विश्रांतान्पद्मयोनिजः
प्रोच्यतां चापि यत्कृत्यं युष्माकं क्रियतेऽधुना ६.२१.
तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ः। चमत्कारपुराभ्याशे वयं प्राप्ताः पितामह
तत्रानेन वयं देव बालकेनाऽभिवादिताः
एतस्य तु पुनः शेषमायुषो दिवसत्र यम्
ततश्चैनं समादाय वयं प्राप्तास्तवांतिकम्
तस्माद्यथा वयं सत्या भवता सह पद्मज
प्रोवाच प्रहसन्वाक्यं समादाय च बालकम्
मत्प्रसादादयं बालोजरामृत्युवि वर्जितः
तस्मात्प्राग्धरणीपृष्ठं व्रजध्वं मुनिसत्तमाः