मया राघव तत्राऽस्ति स्थापितः प्रपितामहः ६.२०.
तस्मात्त्वमपि तत्रैव तूर्णमेव मया सह
येन स्याः सर्वशत्रूणामगम्यस्त्वं रघूद्वह
यस्तत्र कुरुते स्नानं तस्य मृत्युभयं कुतः ज्येष्ठानक्षत्रसंयुक्ता तस्मात्स्नातुं त्वमर्हसि
ततः संप्रस्थितं रामं दृष्ट्वा प्रोवाच लक्ष्मणः
अनर्हा निष्कृतिः कर्तुं तस्मादेनं प्रयाचय
तन्मे देहि स्फुटं येन कायशुद्धिः प्रजायते
स्वामिद्रोहरताः स्नाता मुच्यंते तत्र पातकैः
तत्र शक्रो विपाप्माभूद्धत्वा गर्भं दितेः पुरा तस्मात्तत्र द्रुतं गत्वा स्नानं कुरु महामते
ततः प्रमुच्यसे पापात्स्वामिद्रोहसमुद्भवात्
मनस्तापेन शुध्येत मतमेतन्मनीषिणाम् ६.२०.
ईदृक्षान्मनसस्तापात्तस्माच्छुद्धोऽसि लक्ष्मण
ईदृक्क्षेत्रप्रभावोऽयं सौभ्रात्रेण विवर्जितः
अपि स्वल्पं न सौभ्रात्रं तेषां संजायते क्वचित्
तावत्स्नेहपरो मर्त्यस्तावद्वदति कोमलम्
येऽन्येपि निवसंत्यत्र पशवः पक्षिणो मृगाः
कस्यचित्केनचित्सार्धं सौहार्दं नैव विद्यते
तथापि यदि ते काचिच्छंका चित्ते व्यवस्थिता
यत्र शक्रो विपाप्माऽभूद्द्रोहं कृत्वा सुदारुणम्
एवमुक्तस्तु सौमित्रिर्गत्वा तत्र द्विजोत्तमाः रामोऽपि तत्र गत्वाशु मार्कंडेयवराश्रमे
स्नानं कृत्वा यथान्यायं ददर्शाऽथ पितामहम् ६.२०.
तत्प्रभावाज्जघानाऽथ खरादीन्राक्षसोत्तमान्
इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामकृतयाम्यदिशाप्रयाणे बालमंडनतीर्थमाहात्म्य वर्णनंनाम विंशोऽध्यायः
कस्मिन्स्थाने कृतस्तेन स्वाश्रमो मुनिना वद
चमत्कारपुराभ्याशेवानप्रस्याश्रमे स्थितः
शांतात्मा नियमोपेतश्चकार सुमहत्तपः
पश्चिमे वयसि प्राप्ते पुत्रो जज्ञे सुशोभनः
मार्कंड इति नामाऽथ तस्य चक्रे पिता स्वयम्
शुक्लपक्षं समासाद्य तारापतिरिवांबरे बालक्रीडाप्रसक्तस्य पितुरुत्सङ्गवर्तिनः
कस्यचित्त्वथ कालस्य कश्चित्तत्र समागतः