तथाऽन्यदपि यत्किंचित्कर्म स्वल्पमपि प्रभो ॥ ६.२०.
प्रेष्यत्वेन रघुश्रेष्ठ सत्यमेतन्मयोदितम् अपि स्वल्पतरं राम मया त्वं किं करिष्यसि
तस्य तद्वचनं श्रुत्वा विकृतं चापि राघवः
ततः स्वयं समुत्थाय कृत्वा स्वा स्तरकं शुभम्
लक्ष्मणोऽपि विदूरस्थः कोपसंरक्तलोचनः
हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च
एवं चिंतयतस्तस्य बहुधा लक्ष्मणस्य सा
न तस्य निश्चयो जज्ञे तस्मिन्कृत्ये कथंचन
ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः
लक्ष्मणोऽपि धनुः सज्यं कृत्वा संधाय सायकम्
ततो गोकर्णमासाद्य प्रणम्य च महेश्वरम् ६.२०.
बाष्पपर्याकुलाक्षश्च व्रीडयाऽधोमुखः स्थितः
कुरु मे निग्रहं नाथ स्वामिद्रोहसमुद्भवम्
उत्तराणि विरुद्धानि तव दत्तानि भूरिशः
ततश्च तं परिष्वज्य रामोऽपि निजबांधवम्
न ते त्वन्यः प्रियः कश्चिन्मां मुक्त्वा वेद्म्यहं स्फुटम्
प्राणत्यागं करिष्यामि वह्नावात्मविशुद्धये
रामलक्ष्मणयोरेवं वदतोस्तत्र कानने
ततः प्रणम्य तं रामः सीतालक्ष्मणसंयुतः
मार्कंडेय उवाच प्रभासादहमायातः सांप्रतं रघुनंदन
मया राघव तत्राऽस्ति स्थापितः प्रपितामहः ६.२०.
तस्मात्त्वमपि तत्रैव तूर्णमेव मया सह
येन स्याः सर्वशत्रूणामगम्यस्त्वं रघूद्वह
यस्तत्र कुरुते स्नानं तस्य मृत्युभयं कुतः ज्येष्ठानक्षत्रसंयुक्ता तस्मात्स्नातुं त्वमर्हसि
ततः संप्रस्थितं रामं दृष्ट्वा प्रोवाच लक्ष्मणः
अनर्हा निष्कृतिः कर्तुं तस्मादेनं प्रयाचय
तन्मे देहि स्फुटं येन कायशुद्धिः प्रजायते
स्वामिद्रोहरताः स्नाता मुच्यंते तत्र पातकैः
तत्र शक्रो विपाप्माभूद्धत्वा गर्भं दितेः पुरा तस्मात्तत्र द्रुतं गत्वा स्नानं कुरु महामते
ततः प्रमुच्यसे पापात्स्वामिद्रोहसमुद्भवात्