पिता तव मया दृष्टः साक्षाद्दशरथः स्वयम् ६.२०.
पितुः पितामहोऽन्यस्य तृतीयस्य रघूत्तम
ब्राह्मणानां मया दृष्टाः शरीरस्थाः सुहर्षिताः
ततो ऽहं लज्जया नष्टा दृष्ट्वा श्वशुरसंगमान्
तथा खाद्यानि लेह्यानि चोष्याणि च विशेषतः भक्षयिष्यति दत्तानि स्वहस्तेन मया विभो
एतस्मात्कारणान्नष्टा त्वत्समीपादहं विभो
तच्छ्रुत्वा संप्रहृष्टात्मा रामो राजीवलोचनः
ततो भुक्त्वा स्वयं रामो लक्ष्मणेन समन्वितः
प्रोवाच लक्ष्मणं वत्स पर्णान्यास्तीर्य भूतले
ततः कोपपरीतात्मा सौमित्रिः प्राह राघवम्
तथाऽन्यदपि यत्किंचित्कर्म स्वल्पमपि प्रभो ॥ ६.२०.
प्रेष्यत्वेन रघुश्रेष्ठ सत्यमेतन्मयोदितम् अपि स्वल्पतरं राम मया त्वं किं करिष्यसि
तस्य तद्वचनं श्रुत्वा विकृतं चापि राघवः
ततः स्वयं समुत्थाय कृत्वा स्वा स्तरकं शुभम्
लक्ष्मणोऽपि विदूरस्थः कोपसंरक्तलोचनः
हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च
एवं चिंतयतस्तस्य बहुधा लक्ष्मणस्य सा
न तस्य निश्चयो जज्ञे तस्मिन्कृत्ये कथंचन
ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः
लक्ष्मणोऽपि धनुः सज्यं कृत्वा संधाय सायकम्
ततो गोकर्णमासाद्य प्रणम्य च महेश्वरम् ६.२०.
बाष्पपर्याकुलाक्षश्च व्रीडयाऽधोमुखः स्थितः
कुरु मे निग्रहं नाथ स्वामिद्रोहसमुद्भवम्
उत्तराणि विरुद्धानि तव दत्तानि भूरिशः
ततश्च तं परिष्वज्य रामोऽपि निजबांधवम्
न ते त्वन्यः प्रियः कश्चिन्मां मुक्त्वा वेद्म्यहं स्फुटम्
प्राणत्यागं करिष्यामि वह्नावात्मविशुद्धये
रामलक्ष्मणयोरेवं वदतोस्तत्र कानने
ततः प्रणम्य तं रामः सीतालक्ष्मणसंयुतः
मार्कंडेय उवाच प्रभासादहमायातः सांप्रतं रघुनंदन