ब्राह्मणा ऊचुः पितरः श्राद्धकामा ये वृद्धिं पश्यंति वा नृप
तदस्यां कूपिकायां च स्वयमेव गया स्थिता ६.२०.
तस्मात्कुरु रघुश्रेष्ठ श्राद्धमत्र यथोदितम्
अथैवामन्त्रयामास तान्विप्रान्रघुसत्तमः
बाढमित्येव ते चोक्त्वा स्नानार्थं द्विजसत्तमाः ॥ गताः सर्वे सुसंहृष्टा स्वकीयानाश्रमान्प्रति व
अथ तेषु प्रयातेषु ब्राह्मणेषु रघूत्तमः
शाकमूलफलान्याशु श्राद्धार्थं समुपानय
तच्छ्रुत्वा लक्ष्मणस्तूर्णं जगामाऽरण्यमेव हि
धात्रीफलानि चाऽऽम्राणि चिर्भटानीं गुदानि च
ततश्च पाचयामास तदर्थे जनकोद्भवा
ततश्च कुतपे प्राप्ते काले ते द्विजसत्तमाः
एतस्मिन्नंतरे सीता प्लक्षवृक्षांतरे स्थिता ६.२०.२० स तां सीतेति सीतेति व्याहृत्याथ मुहुर्मुहुः
वत्स लक्ष्मण शुश्रूषां विप्राणां श्राद्धसंभवाम्
बाढमित्येव संप्रोक्तो लक्ष्मणः शुभलक्षणः
ततो निर्वर्तिते श्राद्धे ब्राह्मणेषु गतेष्वथ
तां दृष्ट्वा राघवः सीतां कोपसंरक्तलोचनः
आयातेषु द्विजातेषु श्राद्धकाल उपस्थिते
नैतद्युक्तं कुलस्त्रीणां विशेषादत्र कानने
तस्य तद्वचनं श्रुत्वा भीता सा जनकोद्भवा
न मामर्हसि कार्येऽस्मिन्गर्हितुं रघुसत्तम
पिता तव मया दृष्टः साक्षाद्दशरथः स्वयम् ६.२०.
पितुः पितामहोऽन्यस्य तृतीयस्य रघूत्तम
ब्राह्मणानां मया दृष्टाः शरीरस्थाः सुहर्षिताः
ततो ऽहं लज्जया नष्टा दृष्ट्वा श्वशुरसंगमान्
तथा खाद्यानि लेह्यानि चोष्याणि च विशेषतः भक्षयिष्यति दत्तानि स्वहस्तेन मया विभो
एतस्मात्कारणान्नष्टा त्वत्समीपादहं विभो
तच्छ्रुत्वा संप्रहृष्टात्मा रामो राजीवलोचनः
ततो भुक्त्वा स्वयं रामो लक्ष्मणेन समन्वितः
प्रोवाच लक्ष्मणं वत्स पर्णान्यास्तीर्य भूतले
ततः कोपपरीतात्मा सौमित्रिः प्राह राघवम्