ततः प्रातस्तृतीयेऽह्नि कृतघ्नस्य महीपतिः
ततः सोऽपि समायातस्तस्य स्वप्ने महीपतेः
न मे गतिर्महाराज संजाता पापकर्मिणः
तस्मात्संजायते मुक्तिर्यथा मे पार्थिवोत्तम
सत्यमेव परं ब्रह्म सत्यमेव परं तपः
सत्येन वायु र्वहति सत्येन तपते रविः ६.१९.
तीर्थसेवा तपो दानं स्वाध्यायो गुरुसेवनम्
सर्वे धर्मा धृताः पूर्वमेकत्राऽन्यत्र चाप्यृतम्
तस्मात्सत्यं पुरस्कृत्य मां तारय महामते
करोमि येन तत्कर्म यद्यपि स्यात्सुदुष्करम् ः
आस्ते पांसुभिराच्छन्नं कलेर्भीतं गयाशिरः
अधस्तात्प्लक्षवृक्षस्य दर्भस्थानैः समंततः
तत्र गत्वा तिलैस्तैस्त्वं तैः शाकैस्तैः कुशैस्तथा
तस्य तद्वचनं श्रुत्वा स दीनस्य दयान्वितः
दृष्ट्वा शाकांस्तिलांस्तांस्तु दर्भांस्तेन यथोदितान्
ततः कृतघ्नमुद्दिश्य श्राद्धं चक्रे यथोदितम् ६.१९.३. विमानवरमारूढो विदूरथमथाऽब्रवीत्
मुक्तोऽहं त्वत्प्रसादाच्च प्रेतत्वाद्दारुणाद्विभो
पितॄणां पुष्टिदा नित्यं गयाशीर्षसमुद्भवा
प्रेतपक्षस्य दर्शायां यस्तस्यां श्राद्धमाचरेत्
कृंतितैश्च तथा दर्भैः सम्यक्छ्रद्धासमन्वितः । स प्राप्नोति फलं कृत्स्नं कृतघ्नप्रेततीर्थतः
अग्निष्वात्ताः पितृगणास्तथा बर्हिषदश्च ये
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत्
भ्रममाणो धरापृष्ठे सीतालक्ष्मणसंयुतः
समाऽऽयातो द्विजश्रेष्ठा यत्र सा पितृकूपिका
एतस्मिन्नंतरे प्राप्तो भगवान्दिननायकः
ततः प्लक्षनगाधस्तात्पर्णान्यास्तीर्य भूतले
अथाऽवलोकयामास स्वप्ने दशरथं नृपम्
ततः प्रभाते विमले प्रोद्गते रविमण्डले
अद्य स्वप्ने मया विप्राः प्रियालापपरः पिता
तत्कीदृक्परिणामोऽस्य स्वप्नस्य द्विजसत्तमाः