अथ व्रीडासमायुक्तश्चंद्रस्तं प्रत्यभाषत
गते दक्षे ततो भूयश्चंद्रमा रोहिणीरतः
अथ गत्वा पुनः सर्वा दक्षमूचुः सुदुःखिताः
दौर्भाग्यदुःखसंतप्ता मरिष्याम न संशयः 7.3.20.
मम वाक्यं त्वया चंद्र यस्मात्पाप कृतं न हि
क्षयमेष्यसि तस्मात्त्वं यक्ष्मणा नास्ति संशयः
यक्ष्मणा व्यापितश्चंद्रः क्षयं याति दिनेदिने
कि कर्त्तव्यं मया तत्र ह्यस्मिञ्छापे सुदारुणे
स एवं निश्चयं कृत्वा गतोर्बुदमथाचलम्
तस्मै तुष्टो महादेवो वर्षाणामयुते गते
तव दास्याम्यहं चंद्र यद्यपि स्यात्सुदुर्ल्लभम्
यक्ष्मणा व्यापितो देहो ममायं च जगत्पते
न शक्तो ह्यन्यथा कर्तुं शापस्तस्य महात्मनः
तस्मात्त्वं तस्य ताः सर्वाः कन्यका मम वाक्यतः 7.3.20.
कृष्णे क्षयश्च ते चंद्र शुक्ले वृद्धिर्भविष्यति
भक्त्या स्नानं करोत्येव स यातु परमां गतिम्
पिण्डदानेन देवेश स्वर्गं गच्छंतु पूर्वजाः
यस्मात्प्रभा त्वया प्राप्ता तीर्थेऽस्मिन्विमलोदके
प्रभासतीर्थं विख्यातं तस्मादेतद्भविष्यति
करिष्यंति नराः स्नानं ते यास्यंति परां गतिम्
गयाश्राद्धसमं पुण्यं तेषां चंद्र भविष्यति
चन्द्रोऽपि बुभुजे सर्वाः पत्नीश्च दक्षसंभवाः
तीर्थं यत्र तपस्तप्तं पिण्डोदकद्विजातिना
पुरा पिण्डोदकोनाम ब्राह्मणोऽभून्महामते
अशक्तोऽध्ययनं कर्तुं जाड्यभावान्महीपते
एतस्मिन्नेव कालेतु तत्रैव च सरस्वती
तं दृष्ट्वा ब्राह्मणं खिन्नं वैराग्येण समन्वितम्
कस्मान्न हृष्यसि हृदा कस्मादत्र त्वमागतः
ज्ञानहीनो महाभागे मृत्युं वांछामि सांप्रतम्
न मे सरस्वती देवी जिह्वाग्रे परिवर्तते मरणं हि मम श्रेयो मूकभावान्न जीवितम्