गच्छामः संनिधौ तेषां यदि पार्थिवसतम
तथा रसवती सिद्धाः पश्यामो दूरसंस्थिताः ६.१८.
तथा सुफलिनो वृक्षान्कलपक्षिभिरावृतान्
किंवा ते बहुनोक्तेन यद्यत्कर्म विगर्हितम्
न च्छिद्रेण विनाऽस्माकं प्राणयात्रा प्रजायते
एतस्मात्कारणान्नित्यं भ्रमामश्छिद्रहेतवे
यत्त्वं शंससि चाऽस्माकं खेचरत्वं महीपते
क्रियते खेचरत्वेन किंकिं धर्मं विनिश्चयैः
तस्माद्दोषादिमे राजन्गुणा यद्यपि कीर्तिताः
विषादो जायते भूयो गुणैरेतैर्नराधिप
राजोवाच । तत्करिष्यामि सर्वेषां गयाश्राद्धमसंशयम्
तारयिष्यामि सर्वांश्च सर्वपापैः प्रयत्नतः ॥ ६.१८.
यस्माद्धृद्गतशंका मे हृता युष्माभिरद्य वै
इतः स्थानान्महाराज नातिदूरे जलाशयः । अस्ति नानाद्रुमोपेतश्चित्ताह्लादकरः परः
तस्मादुदङ्मुखो गच्छ यत्र ते जलपक्षिणः
सौम्यां दिशं समुद्दिश्य प्रतस्थे स तु दुःखितः
एवं प्रगच्छता तेन क्षुत्पिपासाकुलेन च । अदूरादेव संदृष्टं नीलं द्रुमकदंबकम्
अथाऽपश्यन्मनोहारि सौम्यसत्त्वनिषेवितम्
पुष्पितैः फलितैर्वृक्षैः समंतात्परिवेष्टितम्
तत्रापश्यन्नगाधस्तात्तपस्विगणसेवितम्
अथ गत्वा स राजेंद्रः प्रणिपत्य मुनीश्वरम् ६.१८.
ते दृष्ट्वाऽदृष्टपूर्वं तं राजलक्षणलक्षितम्
मन्यमाना महीपालं विस्मयोत्फुल्ललोचनाः
कुतस्त्वमनुसंप्राप्तो वनेऽस्मिञ्जनवर्जिते
पार्थिवस्येव लिंगानि दृश्यंते तव भूरिशः
अथोवाच नृपः कृच्छ्रात्पिपासा मां प्रबाधते
ततस्तैर्दर्शितं तोयं समीपे यन्महीपतेः
ततः फलानि पक्वानि तरूणां पतितान्यधः
ततस्तृप्तिं परां प्राप्य गत्वा जैमिनिसंनिधौ
उवाच च निजां वार्तां कृतांजलिपुटः स्थितः