वापीकूपतडागानामारामाणां विशे षतः
गत्वा गयाशिरः पुण्यमेकैकस्य पृथक्पृथक् ६.१८.
प्रेतत्वं याति येनेदं त्वत्प्र सादात्सुदारुणम्
धर्माधर्मपरिज्ञानं तच्च कस्मात्प्रनिंदसि
गुणत्रयसमायुक्ता शेषैर्दोषैः समंततः
एका जातिस्मृतिः सम्यगस्यामेवप्रजायते
एतद्गुणत्रयं प्रोक्तं प्रेतयोनौ नृपोत्तम
यदि तावद्वनादस्माद्यामोन्यत्र वयं नृप
तथा धर्मक्रियाः सर्वा मानुषाणामुदाहृताः
पश्यामो दूरतो राजञ्जलपूर्णाञ्जला शयान्
गच्छामः संनिधौ तेषां यदि पार्थिवसतम
तथा रसवती सिद्धाः पश्यामो दूरसंस्थिताः ६.१८.
तथा सुफलिनो वृक्षान्कलपक्षिभिरावृतान्
किंवा ते बहुनोक्तेन यद्यत्कर्म विगर्हितम्
न च्छिद्रेण विनाऽस्माकं प्राणयात्रा प्रजायते
एतस्मात्कारणान्नित्यं भ्रमामश्छिद्रहेतवे
यत्त्वं शंससि चाऽस्माकं खेचरत्वं महीपते
क्रियते खेचरत्वेन किंकिं धर्मं विनिश्चयैः
तस्माद्दोषादिमे राजन्गुणा यद्यपि कीर्तिताः
विषादो जायते भूयो गुणैरेतैर्नराधिप
राजोवाच । तत्करिष्यामि सर्वेषां गयाश्राद्धमसंशयम्
तारयिष्यामि सर्वांश्च सर्वपापैः प्रयत्नतः ॥ ६.१८.
यस्माद्धृद्गतशंका मे हृता युष्माभिरद्य वै
इतः स्थानान्महाराज नातिदूरे जलाशयः । अस्ति नानाद्रुमोपेतश्चित्ताह्लादकरः परः
तस्मादुदङ्मुखो गच्छ यत्र ते जलपक्षिणः
सौम्यां दिशं समुद्दिश्य प्रतस्थे स तु दुःखितः
एवं प्रगच्छता तेन क्षुत्पिपासाकुलेन च । अदूरादेव संदृष्टं नीलं द्रुमकदंबकम्
अथाऽपश्यन्मनोहारि सौम्यसत्त्वनिषेवितम्
पुष्पितैः फलितैर्वृक्षैः समंतात्परिवेष्टितम्
तत्रापश्यन्नगाधस्तात्तपस्विगणसेवितम्