अतिथिर्यत्र संप्राप्तः श्राद्धकाल उपस्थिते
किं वा ते बहुनोक्तेन शृणु संक्षेपतो नृप
यदन्नं केशसूत्रास्थिश्लेष्मादिभिरुपप्लुतम्
एतन्मे सर्वमाचक्ष्व मांसाद मम पृच्छतः
परदाररतश्चैव परवित्तापहारकः
कन्यां यच्छति वृद्धाय नीचाय धनलिप्सया
कुले जातां विनीतां च धर्मपत्नीं सुखोच्छ्रिताम्
देवस्त्रीगुरुवित्तानि यो गृहीत्वा न यच्छति
परव्यसनसंतुष्टः कृतघ्नो गुरुतल्पगः
दीयमानस्य वित्तस्य ब्राह्मणेभ्यः सुपापकृत्
शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि
कुलदेशोचितं धर्मं यस्त्यक्त्वाऽन्यत्समाचरेत्
एतत्ते सर्वमाख्यातं मया पार्थिवसत्तम ६.१८.
तन्मे कीर्तय मांसाद विस्तरेण विशेषतः
यः पश्यत्यात्मवज्जंतून्न प्रेतो जायते नरः
अन्नदानपरो नित्यं विशेषेणातिथिप्रियः
समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः
दानधर्मप्रवृत्तानां धर्ममार्गा नुयायिनाम्
यूकामत्कुणदंशादीन्सर्वसत्त्वानि यो नरः
सदा यज्ञक्रियोपेतः सदा तीर्थपरायणः
वापीकूपतडागानामारामाणां विशे षतः
गत्वा गयाशिरः पुण्यमेकैकस्य पृथक्पृथक् ६.१८.
प्रेतत्वं याति येनेदं त्वत्प्र सादात्सुदारुणम्
धर्माधर्मपरिज्ञानं तच्च कस्मात्प्रनिंदसि
गुणत्रयसमायुक्ता शेषैर्दोषैः समंततः
एका जातिस्मृतिः सम्यगस्यामेवप्रजायते
एतद्गुणत्रयं प्रोक्तं प्रेतयोनौ नृपोत्तम
यदि तावद्वनादस्माद्यामोन्यत्र वयं नृप
तथा धर्मक्रियाः सर्वा मानुषाणामुदाहृताः
पश्यामो दूरतो राजञ्जलपूर्णाञ्जला शयान्