तेन कर्मविपाकेन प्रेतयोनिं समाश्रितः
सदैवाऽनुष्ठिताऽनेन सुपापेन कृतघ्नता
राजोवाच आहारेण नृलोकेऽस्मिन्सर्वे जीवन्ति जन्तवः
भोज्यकाले गृहे यत्र स्त्रीणां युद्धं प्रवर्तते । अपि मन्त्रौषधीप्रायं प्रेता भुंजति तत्र हि
भुज्यते यत्र भूपाल वेंश्वदेवं विना नरैः ६.१८.
रात्रौ यत्क्रियते श्राद्धं दानं वा पर्ववर्जितम्
यस्मिन्नो मार्जनं हर्म्ये क्रियते नोपलेपनम्
भिन्नभाण्डपरित्यागो यत्र न क्रियते गृहे
यच्छ्राद्धं दक्षिणाहीनं क्रियाहीनं च वा नृप
हीनांगा ह्यधिकांगा वा यस्मिञ्च्छ्राद्धे द्विजातयः
अतिथिर्यत्र संप्राप्तः श्राद्धकाल उपस्थिते
किं वा ते बहुनोक्तेन शृणु संक्षेपतो नृप
यदन्नं केशसूत्रास्थिश्लेष्मादिभिरुपप्लुतम्
एतन्मे सर्वमाचक्ष्व मांसाद मम पृच्छतः
परदाररतश्चैव परवित्तापहारकः
कन्यां यच्छति वृद्धाय नीचाय धनलिप्सया
कुले जातां विनीतां च धर्मपत्नीं सुखोच्छ्रिताम्
देवस्त्रीगुरुवित्तानि यो गृहीत्वा न यच्छति
परव्यसनसंतुष्टः कृतघ्नो गुरुतल्पगः
दीयमानस्य वित्तस्य ब्राह्मणेभ्यः सुपापकृत्
शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि
कुलदेशोचितं धर्मं यस्त्यक्त्वाऽन्यत्समाचरेत्
एतत्ते सर्वमाख्यातं मया पार्थिवसत्तम ६.१८.
तन्मे कीर्तय मांसाद विस्तरेण विशेषतः
यः पश्यत्यात्मवज्जंतून्न प्रेतो जायते नरः
अन्नदानपरो नित्यं विशेषेणातिथिप्रियः
समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः
दानधर्मप्रवृत्तानां धर्ममार्गा नुयायिनाम्
यूकामत्कुणदंशादीन्सर्वसत्त्वानि यो नरः
सदा यज्ञक्रियोपेतः सदा तीर्थपरायणः