सिंहव्याघ्रैस्तथा चान्यैः पतिता नष्टचेतनाः
ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः
कांतारस्यांतमन्विच्छन्प्रेरयामास तं हयम् ६.१७.
ततः स नृपतिस्तेन वायुवेगेन वाजिना
एवं तस्य नरेन्द्रस्य कांदिशीकेऽनवस्थिते
सूत उवाच ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः
अथाऽपश्यद्वियत्स्थानात्स त्रीन्प्रेतान्सु दारुणान्
तान्दृष्ट्वा भयसंत्रस्तो विशेषेण स भूपतिः
के यूयं विकृताकारा मया दृष्टा न कर्हिचित्
विदूरथो नरेन्द्रोऽहं क्षुत्पिपासातिपीडितः
ततस्तेषां तु यो ज्येष्ठो मांसादः प्रत्युवाच तम् ॥ कृतांजलिपुटो भूत्वा विनयावनतः स्थितः
वयं प्रेता महाराज निवसामोऽत्र कानने
अहं मांसादकोनाम द्वितीयोऽयं विदैवतः
किमेतत्कारणं येन सर्वे यूयं स्वनामकाः
तच्छ्रुत्वा प्राह मांसादः कर्मनामानि पार्थिव ॥ मिथः कृतानि संज्ञार्थमस्माभिः स्वयमेव हि । ६.१८.
शृणुष्वाऽवहितो भूत्वा सर्वेषां नः पृथक्पृथक्
वयं हि ब्राह्मणा जात्या वैदिशाख्ये पुरे नृप
नास्तिका भिन्नमर्यादाः परदाररताः सदा
जिह्वालौल्यप्रसंगेन मया भुक्तं सदाऽऽमिषम्
द्वितीयोऽयं महाराज यस्तिष्ठति तवाऽग्रतः
तेन कर्मविपाकेन प्रेतयोनिं समाश्रितः
सदैवाऽनुष्ठिताऽनेन सुपापेन कृतघ्नता
राजोवाच आहारेण नृलोकेऽस्मिन्सर्वे जीवन्ति जन्तवः
भोज्यकाले गृहे यत्र स्त्रीणां युद्धं प्रवर्तते । अपि मन्त्रौषधीप्रायं प्रेता भुंजति तत्र हि
भुज्यते यत्र भूपाल वेंश्वदेवं विना नरैः ६.१८.
रात्रौ यत्क्रियते श्राद्धं दानं वा पर्ववर्जितम्
यस्मिन्नो मार्जनं हर्म्ये क्रियते नोपलेपनम्
भिन्नभाण्डपरित्यागो यत्र न क्रियते गृहे
यच्छ्राद्धं दक्षिणाहीनं क्रियाहीनं च वा नृप
हीनांगा ह्यधिकांगा वा यस्मिञ्च्छ्राद्धे द्विजातयः