तत्र कालवशान्नष्टास्तेऽपि प्राप्ता दिवालयम्
श्रूयतां परमं गुह्यं तस्य क्षेत्रस्य संभवम् ६.१६.
हाटकेश्वरजं क्षेत्रं पुनाति स्मरणादपि
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रक्तशृङ्गसांनिध्यसेवनफलश्रैष्ठ्यवर्णनंनाम षोडशोऽ ध्यायः
तत्क्षेत्रस्य प्रमाणं यत्तदस्माकं प्रकीर्तय । यानि तत्र च पुण्यानि तीर्थान्यायतनानि च
आयामव्यासतश्चैव चमत्कारपुरोत्तमम्
प्राच्यां तस्य गयाशीर्षं पश्चिमेन हरेः पदम्
हाटकेश्वर संज्ञं तु पूर्वमासीद्द्विजोत्तमाः
यतः प्रभृति विप्रेभ्यो दत्तं तेन महात्मना
माहात्म्यं तस्य नो ब्रूहि सूतपुत्र सविस्तरम्
यो वै दानपतिर्दक्षः शत्रुपक्षक्षयावहः
स कदाचिन्मृगान्हंतुं नृपः सेनावृतो ययौ
स जघान मृगांस्तत्र शरैराशीविषोपमैः ६.१७.
सिंहान्व्याघ्रान्गजान्मत्ताञ्च्छतशोऽथ सहस्रशः
न पपात धरापृष्ठे सशरो दुद्रुवे द्रुतम् प्रेरयामास वेगेन मनोमारुतवेगधृक्
ततः सैन्यं समुत्सज्य मृगं लिप्सुर्महीपतिः
कण्टकीबदरीप्रायं शाल्मलीवनसंकुलम्
तत्र रूक्षाऽखिला भूमिर्निर्जला तमसा वृता
ग्रीष्मे मध्यगते सूर्ये मृगाकृष्टः स पार्थिवः
तेन तस्यानुगा भृत्याः सर्वे सुश्रांतवाहनाः
सिंहव्याघ्रैस्तथा चान्यैः पतिता नष्टचेतनाः
ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः
कांतारस्यांतमन्विच्छन्प्रेरयामास तं हयम् ६.१७.
ततः स नृपतिस्तेन वायुवेगेन वाजिना
एवं तस्य नरेन्द्रस्य कांदिशीकेऽनवस्थिते
सूत उवाच ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः
अथाऽपश्यद्वियत्स्थानात्स त्रीन्प्रेतान्सु दारुणान्
तान्दृष्ट्वा भयसंत्रस्तो विशेषेण स भूपतिः
के यूयं विकृताकारा मया दृष्टा न कर्हिचित्
विदूरथो नरेन्द्रोऽहं क्षुत्पिपासातिपीडितः