करोषि मंत्रिणा सार्धं पुरस्याऽस्य प्रदक्षिणाम् ६.१४.
अस्मिन्क्षेत्रे सुतीर्थानि संति पार्थिवसत्तम ॥ तथाऽन्यानि प्रसिद्धानि देवतायतनानि च
आदरस्तेषु वै राजन्नास्ति स्वल्पो ऽपि कर्हिचित्
स प्रोवाच वचो भूपः किंचिद्व्रीडासमन्वितः
यत्पृष्टोऽस्मि द्विजश्रेष्ठा युष्माभिः सांप्रतं मम
तथाऽपि हि प्रकर्तव्यं युष्माकं सत्यमेव हि
वृत्तांतं तन्मुनींद्राणां तेषां ब्राह्मणसत्तमाः
यथा नष्टः पशुस्तस्य कृता यद्वदवेक्षणा ॥ यथा प्रदक्षिणा जाता चमत्कारपुरस्य तु
जातिस्मृतिर्यथा जाता प्राक्तनी तत्प्रभावतः
तच्छ्रुत्वा मुनयः सर्वे प्रहृष्टाः पृथिवीपतेः
समुत्थाय ततश्चक्रुः पुरस्तस्याः प्रदक्षिणाम् ६.१४.
गताश्च परमां सिद्धिं तत्प्रभावात्सुदुर्लभाम्
सोऽपि राजा स मन्त्री च जातौ वैमानिकौ सुरौ
सूत उवाच तस्मात्सर्वप्रयत्नेन त्यक्त्वाऽन्या निखिलाः क्रियाः
किं दानैः किं क्रियाकांडैः किं यज्ञैः किं व्रतैरपि
अग्निष्टोमादयो यज्ञाः सर्वे संपूर्णदक्षिणाः
चान्द्रायणानि कृच्छ्राणि तथा सांतपनानि च
प्रभासाद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा
भूमिदानानि सर्वाणि धर्माः सर्वे दयादिकाः
तत्र राजर्षयः पूर्वं प्रभूताः सिद्धिमागताः
तत्र कालवशान्नष्टास्तेऽपि प्राप्ता दिवालयम्
श्रूयतां परमं गुह्यं तस्य क्षेत्रस्य संभवम् ६.१६.
हाटकेश्वरजं क्षेत्रं पुनाति स्मरणादपि
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रक्तशृङ्गसांनिध्यसेवनफलश्रैष्ठ्यवर्णनंनाम षोडशोऽ ध्यायः
तत्क्षेत्रस्य प्रमाणं यत्तदस्माकं प्रकीर्तय । यानि तत्र च पुण्यानि तीर्थान्यायतनानि च
आयामव्यासतश्चैव चमत्कारपुरोत्तमम्
प्राच्यां तस्य गयाशीर्षं पश्चिमेन हरेः पदम्
हाटकेश्वर संज्ञं तु पूर्वमासीद्द्विजोत्तमाः
यतः प्रभृति विप्रेभ्यो दत्तं तेन महात्मना
माहात्म्यं तस्य नो ब्रूहि सूतपुत्र सविस्तरम्