ते तथेति प्रतिज्ञाय गत्वा शक्रस्य शासनात्
एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम् ६.१३.
तदहं कीर्तयिष्यामि रहस्यं हृदि संस्थितम्
चमत्कारपुरे कश्चिद्वैश्यजातिसमुद्भवः
यो दौःस्थ्यात्सर्वलोकानां करोति पशुरक्षणम्
कदाचिद्रक्षतस्तस्य पशूंस्तान्वनभूमिषु
कृष्ण पक्षे चतुर्दश्यां चैत्रमासे द्विजोत्तमाः
अथ यावद्गृहं प्राप्तः स मूकः पशुपालकः
किं पाप न समायातः पशुरेकोऽद्य नो यथा तस्मा दानय मे क्षिप्रं निराहारोऽपि गां त्वरात्
तच्छ्रुत्वा भयसंत्रस्तः स मूकः पशुपालकः
ततोऽरण्यं समासाद्य वीक्षांचक्रे समंततः ॥ सूक्ष्मदृष्ट्या स दुर्गाणि गहनानि वनानि च
अथ तेन क्वचिद्दृष्टं पदं तस्य पशोः स्फुटम् ६.१४.
ततश्च तत्पदान्वेषी स जगाम वनाद्वनम्
एवं प्रदक्षिणा तस्य जाता पशुदिदृक्षया
प्रदक्षिणावसाने च पशुर्लब्धो हि तेन सः
चैत्रे पुण्यतमे मासि कृष्णपक्षे चतुर्दशीम्
एवमज्ञानभावेन कृता ताभ्यां प्रदक्षिणा
निराहारस्य मूकस्य साहारस्य पशोस्तथा
विना स्नानेन भक्षाच्च दैवाद्द्विजवरोत्तमाः उभौ पंचत्वमापन्नौ पृथक्त्वेनायुषः क्षये
ततश्च पशुपालस्तु दशार्णाधिपतेः सुतः
अथागत्य स राजेंद्रस्तेनैव सह मंत्रिणा ६.१४.
चक्रे संवत्सरस्यांते श्रद्धया परया युतः
एकदा तत्र चाऽऽयाता मुनयः शंसितव्रताः
याज्ञवल्क्यो भरद्वाजः शुनःशेपोऽथ गालवः
तथान्ये शंसिताऽऽत्मानो ब्रह्मचर्यपरायणाः
तान्दृष्ट्वा स महीपालः प्रणिपत्य कृतांजलिः
ततस्तेषां स मध्ये च संनिविष्टो महीपतिः
ततश्चक्रुः कथा दिव्या मुनयस्ते महीपतेः । पुरतो मुनिमुख्यानां चरितानि महात्मनाम्
राजर्षीणां पुराणानां धर्मशास्त्रसमुद्भवाः
अथ क्वाऽपि कथांते स पार्थिवस्तैर्महर्षिभिः