हाटकेश्वरमाहात्म्यात्सर्वपापक्षयापहम्
तस्मात्तव निवासेन भूयान्मेध्यतमं पुनः
मयैतदग्र्यं निर्माय ब्राह्मणेभ्यो निवेदितम्
तस्मिंस्त्वया सदा वासः कर्तव्यो मम वाक्यतः ६.१३.
अचलेश्वर इत्येव नाम्ना ख्यातो जगत्त्रये
यो मामत्र स्थितं मर्त्यो वीक्षयिष्यति भक्तितः
माघशुक्लचतुर्दश्यां मम लिंगस्य यो नरः
बाल्ये वयसि यत्पापं वार्धके यौवनेऽपि वा
तस्मात्स्थापय मे लिंगं त्वमत्रैव महीपते
सोऽपि राजा चकाराशु प्रासादं सुमनोहरम्
ततः संचिंतयामास भूपालः किं महेश्वरः
एतस्मिन्नंतरे जाता वाणी गगनगोचरा ६.१३.
मा त्वं भूमिपशार्दूल कार्यचिन्तां करिष्यसि
तथान्यदपि ते वच्मि प्रत्ययार्थं वचो नृप
सदा मे निश्चला छाया लिंगस्यास्य भविष्यति
तद्रूपां निश्चलां नित्यं तद्दिक्संस्थे दिवाकरे
ततो हर्षं परं गत्वा प्रणिपत्य च तं भुवि
अद्यापि दृश्यते छाया तादृग्रूपा सदा हि सा
षण्मासाभ्यंतरे मृत्युर्यस्य स्याद्भुवि भो द्विजाः
अचलेश्वररूपेण चमत्कारपुरांतिके
निश्चलत्वेन देवेशोह्यष्टषष्टिषु मध्यमः
तेन तत्पावनं क्षेत्रं सर्वेषामिह कीर्तितम् ६.१३.
तथान्यदपि यद्वृत्तं वृत्तांतं तत्प्रभावजम्
अचलेश्वरमाहात्म्यात्तस्मिन्क्षेत्रे नरा द्रुतम्
स्वर्गमेके परे मोक्षं धनधान्यसुतांस्तथा तंतं स लभते मर्त्यः स्वल्पायासेन च द्रुतम्
अथ दृष्ट्वा सहस्राक्षः सर्वे पापनरा भुवि
ततः क्रोधं च कामं च लोभं द्वेषं भयं रतिम्
सर्वान्मूर्तान्समाहूय ततः प्रोवाच सादरम्
नरो वा यदि वा नारी चमत्कारपुरं प्रति
तत्रैव वसमानोऽपि यो गच्छेदचलेश्वरम्