यः पुनर्द्वेषसंयुक्तः संतापं चैव नेष्यति
तथा दुःखानि संप्राप्य दृष्ट्वा नैकान्पराभवान्
वंशोच्छेदं समासाद्य गमिष्यति यमालयम् मम वाक्याद्विशेषेण हितमिच्छद्भिरात्मनः
एवं स भूपतिः सर्वांस्ता नुक्त्वा तपसि स्थितः
सूत उवाच एवं निवेद्य पुत्राणां स राज्यं पृथिवीपतिः
तत आराधयामास देवदेवं महेश्वरम्
स बभूव फलाहारो यावद्वर्षशतं नृपः
ततः परं जलाहारो जातो वर्षशतं हि सः
ततस्तुष्टो महादेवस्तस्य वर्षशते गते
प्रोवाच परितुष्टोऽस्मि मत्तः प्रार्थय वांछितम्
हाटकेश्वरमाहात्म्यात्सर्वपापक्षयापहम्
तस्मात्तव निवासेन भूयान्मेध्यतमं पुनः
मयैतदग्र्यं निर्माय ब्राह्मणेभ्यो निवेदितम्
तस्मिंस्त्वया सदा वासः कर्तव्यो मम वाक्यतः ६.१३.
अचलेश्वर इत्येव नाम्ना ख्यातो जगत्त्रये
यो मामत्र स्थितं मर्त्यो वीक्षयिष्यति भक्तितः
माघशुक्लचतुर्दश्यां मम लिंगस्य यो नरः
बाल्ये वयसि यत्पापं वार्धके यौवनेऽपि वा
तस्मात्स्थापय मे लिंगं त्वमत्रैव महीपते
सोऽपि राजा चकाराशु प्रासादं सुमनोहरम्
ततः संचिंतयामास भूपालः किं महेश्वरः
एतस्मिन्नंतरे जाता वाणी गगनगोचरा ६.१३.
मा त्वं भूमिपशार्दूल कार्यचिन्तां करिष्यसि
तथान्यदपि ते वच्मि प्रत्ययार्थं वचो नृप
सदा मे निश्चला छाया लिंगस्यास्य भविष्यति
तद्रूपां निश्चलां नित्यं तद्दिक्संस्थे दिवाकरे
ततो हर्षं परं गत्वा प्रणिपत्य च तं भुवि
अद्यापि दृश्यते छाया तादृग्रूपा सदा हि सा
षण्मासाभ्यंतरे मृत्युर्यस्य स्याद्भुवि भो द्विजाः
अचलेश्वररूपेण चमत्कारपुरांतिके