वाराहस्य हरेरिष्टं सदा वाससुखप्रदम्
वाराहेणावतारेण पृथ्वी तत्र समुद्धृता
अहं चेतो गमिष्यामि वैकुण्ठे च पुनः शुभे
अनेन वपुषा तिष्ठ ह्यस्मिंस्तीर्थे सदा हरे
अहं स्थास्यामि ते वाक्यात्सदा लोक हिते रतः
ममाग्रे यो ह्रदः पुण्यः सुनिर्मलजलान्वितः
तत्र स्नात्वा नरो भक्त्या मुच्यते ब्रह्महत्यया
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम्
तस्मिन्दिने नृपश्रेष्ठ स्नात्वा व्रतं समाचरेत्
तर्पणं पिंडदानं च यः कुर्याद्भक्तितत्परः 7.3.19.
तत्र दानं प्रशंसंति गत्वा ब्राह्मणसत्तमे
रोमसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः
एकादश्यां विशेषेण कर्त्तव्यं स्नानमुत्तमम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे वाराहतीर्थमाहात्म्यवर्णनंनामैकोनविंशोध्यायः
प्रभा तत्र पुरा प्राप्ता चंद्रेण सुमहात्मना
दक्षस्य कन्यका राजन्सप्तविंशतिसंख्यया
तासां मध्ये च रोहिण्या सह रेमे स नित्यदा गत्वा स्वपितरं नत्वा प्राहुरस्राविलेक्षणाः
वयं त्यक्ताः प्रजानाथ निर्दोषाः पतिना ततः
गतिर्भव सुरश्रेष्ठ सर्वेषां त्वं हितं कुरु
अब्रवीच्च समं पश्य सर्वासु तनयासु मे
अथ व्रीडासमायुक्तश्चंद्रस्तं प्रत्यभाषत
गते दक्षे ततो भूयश्चंद्रमा रोहिणीरतः
अथ गत्वा पुनः सर्वा दक्षमूचुः सुदुःखिताः
दौर्भाग्यदुःखसंतप्ता मरिष्याम न संशयः 7.3.20.
मम वाक्यं त्वया चंद्र यस्मात्पाप कृतं न हि
क्षयमेष्यसि तस्मात्त्वं यक्ष्मणा नास्ति संशयः
यक्ष्मणा व्यापितश्चंद्रः क्षयं याति दिनेदिने
कि कर्त्तव्यं मया तत्र ह्यस्मिञ्छापे सुदारुणे
स एवं निश्चयं कृत्वा गतोर्बुदमथाचलम्
तस्मै तुष्टो महादेवो वर्षाणामयुते गते