ततः कुष्ठविनिर्मुक्तो द्वादशार्कसमप्रभः । निष्क्रांतः सलिलात्तस्माद्धर्षेण महतान्वितः
ततः प्रणम्य तान्सर्वान्ब्राह्मणान्वेदपारगान्
प्रसादेन हि युष्माकं मुक्तोऽहं ब्राह्मणोत्तमाः
तस्मान्नाहं करिष्यामि राज्यं ब्राह्मणसत्तमाः
एतद्राज्यं च देशं च हस्त्यश्वादि तथापरम्
ममैवानुग्रहार्थाय दयां कृत्वा बृहत्तराम्
ब्राह्मणा ऊचुः न वयं रक्षितुं शक्ता राज्यं पार्थिवसत्तम
जामदग्न्येन रामेण पुरा दत्ता वसुन्धरा
सा भूयोपि हृताऽस्माकं क्षत्रियैर्बलवत्तरैः 6.11.
तपस्थितोऽपि कार्येऽत्र न भीः कार्या कथंचन
अवश्यं यदि ते श्रद्धा विद्यते दानसंभवा । क्षेत्रेऽत्रापि महापुण्ये कृत्वा देहि पुरोत्तमम्
सर्वेषां ब्राह्मणेंद्राणां प्राकारपरिखान्वितम् गृहस्थधर्मिणः सर्वे स्वाध्यायनिरता सदा
नगरं कल्पयामास स्थाने तत्र महत्तमम्
प्राकारेण सुतुंगेन परिखाद्येन सर्वतः
त्रिकचत्वरसंशुद्धं शोभितं सर्वतो ध्वजैः
मत्तवारणकोपेतैर्बहुभिर्भूभिरेव च
ततो गृहाणि सर्वाणि पूरयित्वा स भूमिपः
ब्राह्मणेभ्यः कुलीनेभ्यो वेदविद्भ्यो विशेषतः
यथाज्येष्ठं यथाश्रेष्ठं प्रक्षाल्य चरणौ ततः 6.11.
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थोत्पत्तिमाहात्म्यवर्णने चमत्कारभूपतिना व्राह्मणेभ्यो नगरदानवर्णनंनामैकादशोऽध्यायः
ददौ तु नगरं कृत्वा पुरंदरपुरोपमम्
मुक्ताप्रवालवैडूर्यरत्नहेमविचित्रितैः
प्रासादैः स्फाटिकैश्चैव कैलासशिखरोपमैः
कांचनैः सुविचित्रैश्च प्रोन्नतैरमलैः शुभैः
मणिसोपानशोभाभिर्दीर्घिकाभिः समंततः निवेद्य ब्राह्मणेंद्राणां कृतकृत्यो बभूव सः
शंखतीर्थे स्थितो नित्यं समाहूय ततः सुतान्
एतत्पुरं मया कृत्वा ब्राह्मणेभ्यो निवेदितम् ॥ भवद्भिर्मम वाक्येन रक्षणीयं प्रयत्नतः
यथा स्युर्ब्राह्मणाः सर्वे सुखिनो हृष्टमानसाः यश्चैतान्भक्तिसंयुक्तः पालयिष्यति भूमिपः । अन्योऽपि परमं तेजः स संप्राप्स्यति भूतले
अजेयः सर्वशत्रूणां प्रतापी स्फी तिसंयुतः ६.१२.
पुत्रपौत्रसुभृत्याढ्यो दीर्घायू रोगवर्जितः