शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः
अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित्
कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ
स शून्यमाश्रमं प्राप्य लिखितस्य महात्मनः
भक्षयामास भूरीणि पक्वानि मधुराणि च
स गृहीतफलं दृष्ट्वा शंखं प्रोवाच कोपतः
अदत्तानि मया पाप फलानि हृतवानसि
फलानि प्रगृहीतानि विजनेऽत्र तवाश्रमे
तस्मात्कुरु यथार्हं मे निग्रहं चौर्यसंभवम् ॥। इह लोकः परश्चैव येन मे स्यात्सुखावहः ॥ 6.11.
ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात्
छिन्नहस्तोऽपि शंखस्तु तपश्चक्रे सुदारुणम्
ततस्तुष्टो महादेवस्तस्य कालेन केन चित्
वरं गृहाण मत्तस्त्वं मनसा समभीप्सितम्
स्यातां मे तादृशौ हस्तौ भूयोऽपि सुरसत्तम
तथेदं मम नामांकं तीर्थं स्यात्सुरसत्तम
हीनांगो वाधिकांगो वा व्याधिना ग्रस्त एव च
अद्यप्रभृति विप्रेन्द्र देहिनां पापनाशनम्
हीनांगो वाधिकांगो वा योऽत्र स्नानं करिष्यति सुवर्णांगः स तेजस्वी भविष्यति न संशयः
सकामो यदि विप्रेंद्र ध्यायमानः सुरूपताम् 6.11.
अत्र श्राद्धे कृते ब्रह्मंश्चतुर्दश्यां निशाकरे
अद्यैव विप्रशार्दूल चैत्रशुक्लांत उत्तमः
तत्रोपवासयुक्तस्य सम्यक्स्नातस्य तत्क्षणात्
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः
ततश्च तत्क्षणाज्जातौ हस्तौ तस्य यथा पुरा
एवं तद्धरणीपृष्ठे तीर्थं जातं नृपोत्तम
तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर
भविष्यसि न संदेहः सर्वरोगविवर्जितः
चित्रासंस्थे निशानाथे संप्राप्ता च चतुर्दशी
ततस्ते ब्राह्मणा भूपं समादाय च तत्क्षणात् 6.11.
ततः स मनसि ध्यात्वा कुष्ठव्याधिपरिक्षयम्