निवासमकरोत्तस्मिन्क्षेत्रे पुण्यतमे चिरम् अन्य स्याऽन्यस्य वृक्षस्य मदाहंकारवर्जितः
ततः कतिपयाहस्य भ्रममाणो महीपतिः 6.11.
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा
अथवा वित्थ नो यूयं त्यक्ष्यामीह कलेवरम्
तस्य तद्वचनं श्रुत्वा सर्वे ते द्विजसत्तमाः
अस्ति पार्थिवशार्दूल स्थानादस्माददूरतः
ये नरा व्याधिना ग्रस्ताः काणाश्चांधास्तथा जडाः
तेऽपि चैत्रस्य कृष्णादौ स्नातास्तत्राकृताशनाः
अस्माभिः शतशो दृष्टा द्वादशार्कसमप्रभाः 6.11.
राजोवाच शंखतीर्थं कथं ज्ञेयं मया ब्राह्मणसत्तमाः
शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः
अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित्
कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ
स शून्यमाश्रमं प्राप्य लिखितस्य महात्मनः
भक्षयामास भूरीणि पक्वानि मधुराणि च
स गृहीतफलं दृष्ट्वा शंखं प्रोवाच कोपतः
अदत्तानि मया पाप फलानि हृतवानसि
फलानि प्रगृहीतानि विजनेऽत्र तवाश्रमे
तस्मात्कुरु यथार्हं मे निग्रहं चौर्यसंभवम् ॥। इह लोकः परश्चैव येन मे स्यात्सुखावहः ॥ 6.11.
ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात्
छिन्नहस्तोऽपि शंखस्तु तपश्चक्रे सुदारुणम्
ततस्तुष्टो महादेवस्तस्य कालेन केन चित्
वरं गृहाण मत्तस्त्वं मनसा समभीप्सितम्
स्यातां मे तादृशौ हस्तौ भूयोऽपि सुरसत्तम
तथेदं मम नामांकं तीर्थं स्यात्सुरसत्तम
हीनांगो वाधिकांगो वा व्याधिना ग्रस्त एव च
अद्यप्रभृति विप्रेन्द्र देहिनां पापनाशनम्
हीनांगो वाधिकांगो वा योऽत्र स्नानं करिष्यति सुवर्णांगः स तेजस्वी भविष्यति न संशयः
सकामो यदि विप्रेंद्र ध्यायमानः सुरूपताम् 6.11.
अत्र श्राद्धे कृते ब्रह्मंश्चतुर्दश्यां निशाकरे