हाटकेश्वरजे क्षेत्रे सर्वव्याधिविनाशकम्
तत्राऽसौ स्नानमात्रेण तत्क्षणात्पार्थिवोतमः
ऋषय ऊचुः चमत्कारः कथं राजा मुक्तः कुष्ठेन सूतज
कतमे ब्राह्मणास्ते वै शंखतीर्थं प्रदर्शितम्
कतमं शंखतीर्थं तत्कस्मिन्स्थाने व्यवस्थितम्
सर्वपापहरां विप्राश्चमत्कारनृपोद्भवाम्
स भ्रांतः सर्वतीर्थानि प्रभासाद्यानि कृत्स्नशः
पृच्छमानो भिषग्मुख्यानौषधानि मुहुर्मुहुः
न लेभे किंचिदिष्टं वा स मंत्रं भेषजं च वा
ततश्च पार्थिवश्रेष्ठो वैराग्यं परमं गतः
निवासमकरोत्तस्मिन्क्षेत्रे पुण्यतमे चिरम् अन्य स्याऽन्यस्य वृक्षस्य मदाहंकारवर्जितः
ततः कतिपयाहस्य भ्रममाणो महीपतिः 6.11.
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा
अथवा वित्थ नो यूयं त्यक्ष्यामीह कलेवरम्
तस्य तद्वचनं श्रुत्वा सर्वे ते द्विजसत्तमाः
अस्ति पार्थिवशार्दूल स्थानादस्माददूरतः
ये नरा व्याधिना ग्रस्ताः काणाश्चांधास्तथा जडाः
तेऽपि चैत्रस्य कृष्णादौ स्नातास्तत्राकृताशनाः
अस्माभिः शतशो दृष्टा द्वादशार्कसमप्रभाः 6.11.
राजोवाच शंखतीर्थं कथं ज्ञेयं मया ब्राह्मणसत्तमाः
शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः
अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित्
कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ
स शून्यमाश्रमं प्राप्य लिखितस्य महात्मनः
भक्षयामास भूरीणि पक्वानि मधुराणि च
स गृहीतफलं दृष्ट्वा शंखं प्रोवाच कोपतः
अदत्तानि मया पाप फलानि हृतवानसि
फलानि प्रगृहीतानि विजनेऽत्र तवाश्रमे
तस्मात्कुरु यथार्हं मे निग्रहं चौर्यसंभवम् ॥। इह लोकः परश्चैव येन मे स्यात्सुखावहः ॥ 6.11.
ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात्